SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८१ एभ्यस्तस्य क्षेत्रेऽर्थे यो वा स्यात् । उम्यम् , औमीनम् ; भङ्गयम् , भाङ्गीनम् ; तिल्यम् , तैलीनम् ।।८३।। अलाब्वाश्च कटो रजसि ।७।१८४॥ अस्मादुमादेश्च तस्य रजस्यर्थे कट: स्यात् । अलाबूकटम् , उमाकटम् , भङ्गाकटम् , तिलकटम् ।।८४॥ अह्ना गम्येऽश्वादीनञ् ।७११८५॥ षष्ठयन्तादश्वादेकेनाहा गम्येऽर्थे ईनञ् स्यात् । आश्वीनोऽध्वा ॥८५।। कुलाज्जल्पे ।।१।८६॥ षष्ठयन्तात् कुलाज्जल्पेऽर्थे ईनञ् स्यात् । कौलीनः ॥८६।। पील्वादेः कुणः पाके १७११८७॥ एभ्यस्तस्य पाके कुण: स्यात् । पीलुकुण: , शमीकुणः ॥८७|| कर्णादेर्मूले जाहः ।७।१।८८॥ एभ्यस्तस्य मूलेऽर्थे जाह: स्यात् । कर्णजाहम् , अक्षिजाहम् ।।८८|| पक्षात् तिः ।७११८९॥ पक्षात् तस्य मूलेऽर्थे ति: स्यात् । पक्षति: ।।८९।। हिमादेलुः सहे ।७११९०॥ हिमात् तस्य सहमानेऽर्थे एलुः स्यात् । हिमेलुः ॥९०।। बल-वातादूलः ।।९१॥ आभ्यां तस्य सहेऽर्थे ऊल: स्यात् । बलूल: . वातूलः ।।९१|| शीतोष्ण-तृप्रादालुरसहे ।७११९२॥ एभ्यस्तस्यासहेऽर्थे आलुः स्यात् । शीतालुः , उष्णालुः , तृप्रालुः ।।९२।। यथामुख-संमुखादीनस्तद् दृश्यतेऽस्मिन् ।७१।९३॥ आभ्यां तदिति स्यन्ताभ्याम् , अस्मिन्निति ड्यर्थे ईन: स्यात् , स्यन्तं चेद् दृश्यते । यथामुखं प्रतिबिम्बम् , यथामुखीन आदर्शः , एवं संमुखीन: ।।९३।। सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ।७।११९४॥ सर्वशब्दपूर्वेभ्य एभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईन: स्यात् । सर्वपथीनो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy