SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३८२ स्वोपज्ञलघुवृत्तिविभूषितं रथ: , सर्वाङ्गीणस्तापः , सर्वकर्मीणो ना , सर्वपत्रीणो यन्ता , सर्वपात्रीणं भक्तम् , सर्वशरावीणमोदनम् ।।९४।। आप्रपदम् ।७।११९५॥ आ पादाग्राद् आप्रपदम् , अस्मादमन्ताद् व्याप्नोतीत्यर्थे ईन: स्यात् । आप्रपदीन: पट: ।।९५|| __ अनुपदं बद्धा ७१।९६॥ अस्मादमन्ताद् बद्धेत्यर्थे ईन: स्यात् । अनुपदीनोपानत् ।।९६।। ___ अयानयं नेयः ।७।१।९७॥ अस्माद् द्वितीयान्तान्नेयेऽर्थे ईन: स्यात् । अयानयीन: शारः ।।९७।। ___ सर्वाऽन्नमत्ति ।७।१।९८॥ अस्मादमन्तादत्त्यर्थे ईन: स्यात् । सर्वान्नीनो भिक्षुः ।।९८।। परोवरीण-परम्परीण-पुत्रपौत्रीणम् ।७।११९९॥ एतेऽनुभवत्यर्थे ईनान्ता निपात्या: । परोवरीण: , परम्परीण: , पुत्रपौत्रीण: ॥९९।। ___ यथाकामा-ऽनुकामा-ऽत्यन्तं गामिनि ॥१०॥ एभ्योऽमन्तेभ्यो गामिन्यर्थे ईन: स्यात् । यथाकामीन: , अनुकामीन: , अत्यन्तीनः ॥१०॥ पारावारं व्यस्त-व्यत्यस्तं च ।७१।१०१॥ अस्माद् समस्ताद् व्यस्ताद् व्यत्यस्ताच्चामन्ताद् गामिनि ईन: स्यात् । पारावारीण: , पारीण: , अवारीण: , अवारपारीण: ॥१०१।। १. लघुवृत्तेस्तालपत्रोपरिलिखितादर्शेषु 'पादाग्राद्' इति पाठ: । केवलं P3सं० मध्ये ‘पदाग्राद्' इति पाठः । अभिधानचिन्तामणिनाममालायामपि ‘पादाग्रं प्रपदम्' [श्लोक ६१७] इति पाठ: । पाणिनीयव्याकरणस्य [५।२।८] वृत्तौ काशिकायामपि “प्रपदम् इति पादस्याग्रमुच्यते” इति पाठ: । किन्तु सिद्धहेमचन्द्रशब्दानुशासनस्य बृहद्वृत्तौ 'प्रगतं पदं प्रपदम्' इति पाठ: । चान्द्रव्याकरणे [४।२।१२] वृत्तौ “पदाग्रं प्रपदम्' इति पाठः । शाकटायनव्याकरणस्वोपज्ञवृत्तौ [३।३।५४] “पदस्याग्रं प्रपदम्' इति पाठ: । जैनेन्द्रव्याकरणमहावृत्तौ [३।४।१३३] "प्रवृद्धं पदं प्रपदम्, पदस्योपरि गुल्फ: पदाग्रं वा'' इति पाठः । “आ पदाग्राद् आप्रपदम्' इति मलयगिरिशब्दानुशासनस्य स्वोपज्ञवृत्तौ तद्धिते सप्तमे पादे पञ्चमे सूत्रे [पृ० ३३८] पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy