SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३८० स्वोपज्ञलघुवृत्तिविभूषितं ; एवं धौर्त्तिका ॥७३॥ द्वन्द्वाल्लित् ।७।११७४॥ द्वन्द्वात् तस्य भावे कर्मणि च लिद् अकञ् स्यात् । वैनिका , वि-नृत्वम् , विनृता ।।७४।। गोत्र-चरणाच्छ्लाघा-ऽत्याकार-प्राप्त्यवगमे ।७११७५॥ गोत्रार्थ-चरणार्थाभ्यां तस्य भावे कर्मणि च लिदकञ् स्यात् , श्लाघादिविषये | गार्गिकया श्लाघते , अत्याकुरुते वा , गार्गिकां प्राप्तोऽवगतवान् वा , एवं काठिकयेत्यादि । श्लाघादिष्विति किम् ? गार्गम् , काठम् ।।७५।। होत्राभ्य ईयः ४११७६॥ होत्रा ऋत्विग्विशेष: , तदर्थात् तस्य भावे कर्मणि च ईय: स्यात्। मैत्रावरुणीयम् । त्वतलावपि ॥७६।। ब्रह्मणस्त्वः ।७११७७॥ अस्माद् ऋत्विगर्थात् तस्य भावे कर्मणि च त्व: स्यात् । ब्रह्मत्वम् ॥७७|| शाकट-शाकिनौ क्षेत्रे ७११७८॥ षष्ठयन्तात् क्षेत्रेऽर्थे एतौ स्याताम् । इक्षुशाकटम् , शाकशाकिनम् ।।७८।। धान्येभ्य ईनञ् ।७।११७९॥ धान्यार्थेभ्य: षष्ठयन्तेभ्यः क्षेत्रेऽर्थे ईनञ् स्यात् । मौद्गीनम् , कौद्रवीणम् ॥७९॥ व्रीहि-शालेरेयण् ।७।११८०॥ आभ्यां तस्य क्षेत्रे एयण् स्यात् । त्रैहेयम् , शालेयम् ।।८०॥ यव-यवक-पष्टिकाद् यः ।१८१॥ एभ्यस्तस्य क्षेत्रे य: स्यात् । यव्यम् , यवक्यम् , षष्टिक्यम् ।।८१|| वाऽणु-माषात् ।७।११८२॥ आभ्यां तस्य क्षेत्रे यो वा स्यात् । अणव्यम् , आणवीनम् ; माष्यम् , माषीणम् ।।८२।। . वोमा-भङ्गा-तिलात् ।।११८३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy