________________
३७/८
म्रदिमा, मृदुत्वम्, मृदुता, मार्दवम् ॥५८॥
,
,
वर्णविशेषार्थेभ्यो दृढादेश्च तस्य भावे ट्यण् इमन् च वा स्यात् । शौक्लयम् शुक्लिमा, शुक्लत्वम्, शुक्लता; शैत्यम्, शितिमा, शितित्वम्, शितिता शैतम् ; दाढर्यम्, द्रढिमा दृढत्वम् दृढता ; वैमत्यम् विमतिमा विमतित्वम्, विमतिता, वैमतम् ॥५९॥
पति- राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च | ७|१|६०॥ पत्यन्तराजान्तेभ्यो गुणोऽङ्गं प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेश्च तस्य भावे क्रियायां च ट्यण् स्यात् । आधिपत्यम्, अधिपतित्वम्, अधिपतिता; आधिराज्यम् अधिराजत्वम्, अधिराजता मौढ्यम् मूढत्वम् मूढता राज्यम्, राजत्वम्, राजता ; काव्यम्, कवित्वम्, कविता ||६० ||
;
T
अर्हतस्तो न्त् च | ७|१|६१॥
,
;
,
"
स्वोपज्ञलघुवृत्तिविभूषितं
वर्ण - दृढादिभ्यष्टयण् च वा | ७|११५९ ॥
अस्मात् तस्य भावे कर्मणि च ट्यण् स्यात्, तद्योगे च तस्य न्तादेशः । आर्हन्त्यम्, अर्हत्त्वम् अर्हता ॥ ६१ ॥
सहायाद् वा | ७|११६२॥
अस्मात् तस्य भावे कर्मणि च ट्यण् वा स्यात् । साहाय्यम् साहायकम् सहायत्वम्, सहायता ||६२||
सखि वणिग्- दूताद् यः ।७|१|६३॥
एभ्यस्तस्य भावे कर्मणि च यः स्यात् । सख्यम्, सखित्वम्, सखिता
वणिज्या, वणिक्त्वम्, वणिक्ता, वाणिज्यम् ; एवं दूत्यम् ||६३ ||
स्तेनान्नलुक् च | ७|१|६४||
स्तेनात् तस्य भावे कर्मणि च यः स्यात्, तद्योगे च नस्य लुक् । स्तेयम् स्तेनत्वम् स्तेनता, स्तैन्यम् ||६४ ||
कपि-ज्ञातेरेयण्
,
Jain Education International
-
,
,
आभ्यां तस्य भावे कर्मणि च एयण् स्यात् । कापेयम्, कपित्वम्, कपिता ; ज्ञातेयम् ज्ञातित्वम् ज्ञातिता ॥ ६५ ॥
प्राणिजाति-वयोऽर्थादञ् | ७|१|६६ ॥
,
"
For Private & Personal Use Only
www.jainelibrary.org