SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३७७ तद् ।७१॥५०॥ तदिति स्यन्तात् स्यादिति सम्भाव्यात् , षष्ठ्यर्थे परिणामिनि सप्तम्यर्थे च यथाऽधिकृतं प्रत्यय: स्यात् । प्राकारीया इष्टका: , परशव्यमय: , प्रासादीयो देश: ॥५०॥ तस्याऽर्हे क्रियायां वत् ।७।११५१॥ तस्येति षष्ठयन्तात् क्रियारूपेऽहेऽर्थे वत् स्यात् । राजवद् वृत्तं राज्ञः । क्रियायामिति किम् ? राज्ञोऽहों मणिः ॥५१।। स्यादेरिवे ॥१॥५२॥ स्याद्यन्तादिवार्थे सादृश्ये क्रियार्थे वत् स्यात् । अश्ववद् याति चैत्रः , देववत् पश्यन्ति मुनिम् ।।५२।। तत्र ७१५३॥ तत्रेति सप्तम्यन्तादिवार्थे वत् स्यात् । सुघ्नवत् साकेते परिखा ।।५३।। तस्य ।७।११५४॥ तस्येति षष्ठ्यन्तादिवार्थे वत् स्यात् । चैत्रवद् मैत्रस्य भूः ।।५४।। भावे त्व-तल् ।७।११५५॥ षष्ठयन्ताद् भावे एतौ स्याताम् , शब्दप्रवृत्तिहेतुर्गुणो भावः । गोत्वम् , गोता ; शुक्लत्वम् , शुक्लता ।।५५।। प्राक् त्वादगडुलादेः १७॥१॥५६॥ ब्रह्मणस्त्व: [७।११७७] इत्यतोऽर्वाक् त्वतलावधिकृतौ ज्ञेयौ न तु गडुलादेः , तत्रैवोदाहरिष्येते । गडुलादिवर्जनं किम् ? गाडुल्यम् , कामण्डलवम् ।।५६।। नञ्तत्पुरुषादबुधादेः ।७।१।५७॥ प्राक् त्वान्नपूर्वात् तत्पुरुषाद् बुधाद्यन्तवर्जात् त्वतलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् , अशुक्लता ; अपतित्वम् , अपतिता । अबुधादेरिति किम् ? आबुध्यम् , आचतुर्यम् ।।५७|| पृथ्वादेरिमन् वा ७७१।५८॥ एभ्यो भावे वा इमन् स्यात् । प्रथिमा , पृथुत्वम् , पृथुता , पार्थवम् ; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy