________________
स्वोपज्ञलघुवृत्तिविभूपितं
पञ्चादेः पराज्जनात् कर्मधारयवृत्तेः तस्मै हिते ईन: स्यात् । पञ्चजनीन: , सर्वजनीन: , विश्वजनीन: । कर्मधारय इति किम् ? पञ्चानां जनाय हितः पञ्चजनीयः ॥४१||
महत्-सर्वादिकण् ।७।१।४२॥ आभ्यां पराज्जनात् कर्मधारयवृत्तेस्तस्मै हिते इकण् स्यात् । माहाजनिक: , सार्वजनिकः ।।४२||
सर्वाण्णो वा ।७।१।४३॥ सर्वात् तस्मै हिते णो वा स्यात् । सार्व: , सर्वीय: ॥४३॥
परिणामिनि तदर्थे ।७।११४४॥ चतुर्थ्यन्ताच्चतुर्थ्यन्तार्थार्थे परिणामिनि हेतावर्थे यथाऽधिकृतं प्रत्यय: स्यात् | अङ्गारीयाणि काष्ठानि , शङ्कव्यं दारु ॥४४।।
चर्मण्यञ् ।११।४५॥ चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मण्यर्थेऽञ् स्यात् । वार्धं चर्म ।।४।।
__ऋषभोपानहाच्यः ।७१।४६॥ आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे ज्य: स्यात् । आर्षभ्यो वत्सः , औपानह्यो मुञ्जः ।।४६।।
छदिर्बलेरेयण् ।
७४७॥ आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण् स्यात् । छादिषेयं तृणम् , बालेयास्तण्डुलाः ॥४७॥
परिखाऽस्य स्यात् ।७।१।४८॥ अस्मात् स्यन्तादस्येति षष्ठयर्थे परिणामिन्येयण् स्यात् , सा चेत् स्यादिति सम्भाव्या । पारिखेय्य इष्टका: ।।४८।।
अत्र च ।७।१४९॥ परिखाया: स्यादिति सम्भाव्याया: स्यन्ताया अत्रेति सप्तम्यर्थे एयण् स्यात् । पारिखेयी भूमिः ॥४९।। १. चतुर्थ्यन्तात् तदर्थे चतुर्थ्यन्तार्थार्थे परि पा२ । चतुर्थ्यन्तार्थार्थ परि J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org