SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३७३ हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य-जन्यधर्म्यम् ।।१।११॥ एतेऽर्थविशेषेषु यान्ता निपात्या: । हृद्यमौषधम् , पद्यः पङ्कः , तुल्यं भाण्डं सदृक् च , मूल्यं धान्यं पटादिविक्रयाल्लभ्यं च , वश्यो गौः , पथ्यमोदनादि , वयस्य: सखा , धेनुष्या पीतदुग्धा गौः , गार्हपत्यो नामाग्निः , जन्या वरवयस्याः , धर्म्यं सुखम् ॥११॥ नौ-विषेण तार्य-वध्ये ७।१।१२॥ आभ्यां निर्देशाट्टान्ताभ्यां यथासङ्ख्यं तार्ये वध्ये चार्थे य: स्यात् । नाव्या नदी , विष्यो गजः ।।१२।। न्याया-ऽर्थादनपेते ।।१।१३॥ आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे य: स्यात् । न्याय्यम् , अर्थ्यम् ।।१३।। मत-मदस्य करणे ।७।१।१४॥ आभ्यां षष्ठयन्ताभ्यां करणे य: स्यात् । मत्यम् , मद्यम् ।।१४।। तत्र साधौ ।७१।१५॥ तत्रेति ड्यन्तात् साधावर्थे य: स्यात् । सभ्यः ।।१५।।। पथ्यतिथि-वसति-स्वपतेरेयण् ।७।१।१६॥ एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम् , आतिथेयम् , वासतेयम् , स्वापतेयम् ॥१६॥ भक्ताण्णः ।१।१७॥ भक्तात् तत्र साधौ ण: स्यात् । भाक्तः शालिः ॥१७|| पर्षदो ण्य-णौ ।७१।१८॥ तत्र साधौ स्याताम् । पार्षद्यः , पार्षदः ॥१८॥ सर्वजनाण्ण्येनजौ।७।१।१९॥ तत्र साधौ स्याताम् । सार्वजन्य: , सार्वजनीनः ।।१९।। प्रतिजनादेरीनञ् ।७१२०॥ तत्र साधौ स्यात् । प्रातिजनीनः , आनुजनीनः ।।२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy