SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३७४ स्वोपज्ञलघुवृत्तिविभूपितं कथादेरिकण् ।७॥१॥२१॥ तत्र साधौ स्यात् । काथिकः , वैकथिकः ॥२१।। देवतान्तात् तदर्थे ।७।१।२२॥ देवतान्तात् तदर्थे य: स्यात् । अग्निदेवत्यं हविः ।।२२।। पाद्या-ऽर्थे ।७।१२३॥ एतौ तदर्थे यान्तौ निपात्यौ । पाद्यं जलम् , अर्घ्यं रत्नम् ।।२३।। ण्योऽतिथेः ।७।१।२४॥ तदर्थेऽर्थे स्यात् । आतिथ्यम् ॥२४।। सादेवा तदः ।।२।। तद् [७।११५०] इति सूत्रं यावत् केवलस्य सादेश्च वक्ष्यमाणो विधि यः ॥२५॥ __ हलस्य कर्षे ।७।१।२६॥ हलात् षष्ठयन्तात् कर्षेऽर्थे य: स्यात् । हल्या , द्विहल्या ॥२६।। सीतया संगते ।७।।२७॥ अस्माट्टाऽन्तात् सङ्गतेऽर्थे य: स्यात् । सीत्यम् , त्रिसीत्यम् ॥२७|| ईयः ।।१।२८॥ आ तदो वक्ष्यमाणार्थेषु ईयोऽधिकृतो ज्ञेयः ।।२८।। हविरन्नभेदा-ऽपूपायो वा ।७२९॥ हविर्भेदादन्नभेदादपूपादेश्वाऽऽतदोऽर्थेषु वा योऽधिक्रियते । आमिक्ष्यम् , आमिक्षीयम् ; ओदन्याः , ओदनीयास्तण्डुला: ; अपूप्यम् , अपूपीयम् ; यवापूप्यम् , यवापूपीयम् ।।२९॥ ___ उवर्ण-युगादेर्यः ।७।१॥३०॥ उवर्णान्ताद् युगादेश्वाऽऽतदोऽर्थेषु य: स्यात् । शङ्कव्यं दारु , युग्यं , हविष्यम् ॥३०॥ नाभेर्नभ् चादेहांशात् ।७।१॥३१॥ अदेहांशार्थानाभेरा तदोऽर्थेषु यः स्यात् , नभ् चाऽस्य । नभ्योऽक्षः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy