SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३७२ स्वोपज्ञलघुवृत्तिविभूषितं [ अथ सप्तमाध्यायस्य ] प्रथमः पादः यः ॥७॥११॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादर्वाग् य इत्यधिकृतं ज्ञेयम् ।।१।। वहति रथ-युग-प्रासङ्गात् ।७।१।२॥ तमिति वर्तते , एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे य: स्यात् । द्विरथ्यः , युग्य: , प्रासङ्गो वत्सदमनस्कन्धकाष्ठम् , प्रासङ्गयः ।।२।। धुरो यैयण् ।७।३॥ धुरो द्वितीयान्ताद् वहत्यर्थे एतौ स्याताम् । धुर्यः , धौरेय: ।।३।। वामाद्यादेरीनः ।७।१४॥ वामादिपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे ईन: स्यात् । वामधुरीण: , सर्वधुरीण: ||४|| अश्वैकादेः ।७११५॥ एकपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे अ ईनश्च स्यात् । एकधुरः , एकधुरीण: हल-सीरादिकण् ।७।१६॥ आभ्यां तं वहत्यर्थे इकण् स्यात् । हालिक: , सैरिकः ||६|| शकटादण् ।७११७॥ अस्मात् तं वहत्यर्थेऽण् स्यात् । शाकटो गौः ।।७।। विध्यत्यनन्येन ।७।१।८॥ द्वितीयान्ताद् विध्यत्यर्थे य: स्यात् , न चेदात्मनोऽन्येन करणेन विध्यते । पद्या: शर्करा: । अनन्येनेति किम् ? चौरं विध्यति चैत्र: ।।८।। धनगणाल्लब्धरि ।७१।९।। आभ्याममन्ताभ्यां लब्धर्यर्थे य: स्यात् । धन्य: , गण्यः ।।९।। णोऽन्नात् ।७।१।१०॥ अन्नाद् अमन्तात् लब्धरि ण: स्यात् । आन्नः ।।१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy