________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३७१
दक्षिणा-कडङ्गर-स्थालीबिलादीय-यौ।६।४।१८१॥ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे ईय-यौ स्याताम् । दक्षिणीयो , दक्षिण्यो गुरुः ; कडङ्गरीयः , कडङ्गयों गौ: ; स्थालीबिलीया: , स्थालीबिल्यास्तण्डुलाः ।।१८१।।
छेदादेर्नित्यम् ।६।४।१८२॥ अस्माद् द्वितीयान्तानित्यमर्हति यथोक्तं प्रत्यय: स्यात् । छैदिक: , भैदिक:
॥१८२॥
विरागाद् विरङ्गश्च ।६।४।१८३॥ अस्माद् द्वितीयान्तान्नित्यमर्हति यथोक्तं प्रत्यय: स्यात् , तद्योगे चास्य विरङ्गः । वैरङ्गिक: ।।१८३।।
शीर्षच्छेदाद् यो वा ।६।४।१८४॥ अस्माद् द्वितीयान्तान्नित्यमर्हति यो वा स्यात् । शीर्षच्छेद्यः , शैर्षच्छेदिकश्चौर: ॥१८४||
शालीन-कौपीना-ऽऽर्बिजीनम् ।६।४।१८५॥ एते तमर्हतीत्यर्थे ईनञन्ता निपात्या: । शालीनोऽधृष्टः , कौपीनं पापकर्मादि , आविजीनो यजमान ऋत्विग वा ।।१८५।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ
षष्ठोऽध्याय: समाप्तः ।।६।४||
भूमिं कामगवि ! स्वगोमयरसैरासिञ्च रत्नाकरा: ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । धृत्वा कल्पतरोदलानि सरलैर्दिग्वारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ।।२४||
१. कर्मादिः J3 ।। २. समाप्त:--- नास्ति पार ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org