________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
त्रिंशद्-विंशतेर्डकोऽसंज्ञायामाऽर्हदर्थे ।६।४।१२९॥ आभ्यामा अर्हदर्थाद् योऽर्थो वक्ष्यते तस्मिन् डक: स्यात् , असंज्ञाविषये । त्रिंशकम् , विंशकम् , त्रिंशकः , विंशकः । असंज्ञायामिति किम् ? त्रिंशत्कम् , विंशतिकम् ।।१२९।।
सङ्ख्या-डतेश्वाऽशत्-ति-ष्टेः कः ।६।४।१३०॥ शदन्त-त्यन्त-ष्टयन्तवर्जसंख्याया डत्यन्तात् त्रिंशविंशतिभ्यां चाऽऽर्हदर्थे क: स्यात् । द्विकम् , कतिकम् , त्रिंशत्कम् , विंशतिकम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् , साप्ततिकम् , षाष्टिकम् ।।१३०॥
शतात् केवलादतस्मिन् येकौ ।६।४।१३१॥ शतात् केवलादाऽर्हदर्थे येकौ स्याताम् , स चेदर्थः प्रकृत्यर्थाद् नाऽभिन्न: । शत्यम् , शतिकम् । केवलादिति किम् ? द्विशतकम् । अतस्मिन्निति किम् ? शतकं स्तोत्रम् ।।१३१||
वाऽतोरिकः ।६।४।१३२॥ अत्वन्तसंख्याया आऽर्हदर्थे इको वा स्यात् । यावतिकम् , यावत्कम् ।।१३२।।
कार्षापणादिकट प्रतिश्चास्य वा ।६।४।१३३॥ अस्मादाऽर्हदर्थे इकट् स्यात् , अस्य च प्रतिर्वा । कार्षापणिकी , प्रतिकी ।।१३३।।
अर्धात् पल-कंस-कर्षात् ।६।४।१३४॥ अर्धपूर्वात् पलाद्यन्तादाऽर्हदर्थे इकट् स्यात् । अर्धपलिकम् , अर्धकंसिकम् , अर्धकर्षिकी ।।१३४॥
कंसा-ऽर्धात् ।६।४।१३५॥ आभ्यामाऽर्हदर्थे इकट् स्यात् । कंसिकी , अर्धिकी ॥१३५।।
सहस्र-शतमानादण् ।६।४।१३६॥ आभ्यामाऽर्हदर्थेऽण् स्यात् । साहस्रः , शातमानः ॥१३६।।
शूर्पाद् वाऽञ्।६।४।१३७॥ आऽर्हदर्थे वाऽञ् स्यात् । शौर्पम् , शौर्पिकम् ।।१३७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org