________________
स्वोपज्ञलघुवृत्तिविभूषितं
वसनात् ।६।४।१३८॥ आऽहंदर्थेऽञ् स्यात् । वासनम् ।।१३८।।
विंशतिकात् ।६।४।१३९॥ आऽहंदर्थेऽञ् स्यात् । शतिकम् ।।१३९।।
द्विगोरीनः ।६।४।१४०॥ विंशतिकान्ताद् द्विगोराऽहंदर्थे ईन: स्यात् । द्विविंशतिकीनम् ।।१४०॥
अनाम्न्यद्विः प्लुप् ।६।४।१४१॥ द्विगोराऽर्हदर्थे जातस्य प्रत्ययस्य पित् लुप् स्यात् , न तु द्वि: अनाम्नि । द्विकंसम् । अनाम्नीति किम् ? पाञ्चलोहितिकम् । अद्विरिति किम् ? द्विशूर्पण क्रीतं द्विशौर्पिकम् ।।१४१।।
नवाऽणः ।६।४।१४२॥ द्विगो: परस्याऽऽर्हदर्थेऽण: पित् लुब् वा स्यात् , न तु द्वि: । द्विसहस्रम् , द्विसाहस्रम् ।।१४२॥
_सुवर्ण-कार्षापणात् ।६।४।१४३॥ एतदन्ताद् द्विगो: परस्याऽऽहंदर्थे प्रत्ययस्य लुब् वा स्यात् , न तु द्विः । द्विसुवर्णम् , द्विसौवर्णिकम् ; द्विकार्षापणम् , द्विकार्षापणिकम् ।।१४३।।
द्वि-त्रि-बहोर्निष्क-विस्तात् ।६।४।१४४॥ एभ्यः परौ यौ निष्क-विस्तौ तदन्ताद् द्विगोराऽर्हदर्थे प्रत्ययस्य लुब् वा स्यात् , अद्वि: । द्विनिष्कम् , द्विनैष्किकम् ; त्रिनिष्कम् , त्रिनैष्किकम् ; बहुनिष्कम् , बहुनैष्किकम् ; द्विविस्तम् , द्विवैस्तिकम् ; त्रिविस्तम् , त्रिवैस्तिकम् ; बहुविस्तम् , बहुवैस्तिकम् ।।१४४।।
शताद् यः ।६।४।१४५॥ शतान्ताद् द्विगोराऽर्हदर्थे यो वा स्यात् । द्विशत्यम् , द्विशतम् ।।१४५।।
शाणात् ।६।४।१४६॥ शाणान्ताद् द्विगोराऽर्हदर्थे यो वा स्यात् । पञ्चशाण्यम् , पञ्चशाणम् ।।१४६।।
द्वि-त्र्यादेर्याऽण् वा ।६।४।१४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org