SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३६४ स्वोपज्ञलघुवृत्तिविभूषितं । वैशाखो मन्थ: , आषाढो दण्डः ॥१२०॥ उत्थापनादेरीयः ।६।४।१२१॥ एभ्यस्तदस्य प्रयोजनमिति विषये ईय: स्यात् । उत्थापनीय: , उपस्थापनीय: ||१२१।। विशि-रुहि-पदि-पूरि-समापेरनात् सपूर्वपदात् ।६।४।१२२॥ एभ्योऽनडन्तेभ्य: सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईय: स्यात् । गृहप्रवेशनी यम् , आरोहणीयम् , गोप्रपदनीयम् , प्रपापूरणीयम् , अङ्गसमापनीयम् ॥१२२।। स्वर्ग-स्वस्तिवाचनादिभ्यो य-लुपौ।६।४।१२३॥ स्वर्गादेः स्वस्तिवाचनादेश्च तदस्य प्रयोजनमित्यर्थे यथासंख्यं यो लुप् च स्यात् । स्वर्ग्यम् , आयुष्यम् , स्वस्तिवाचनम् , शान्तिवाचनम् ॥१२३।। समयात् प्राप्तः ।६।४।१२४॥ समयात् प्रथमान्तात् षष्ठयर्थे इकण् स्यात् , चेत् समय: प्राप्तः । सामयिक कार्यम् ।।१२४।। ऋत्वादिभ्योऽण् ।६।४।१२५॥ एभ्यः प्रथमान्तेभ्य: सोऽस्य प्राप्त इत्यर्थेऽण् स्यात् । आर्त्तवं फलम् , औपवस्त्रम् ॥१२५|| कालाद् यः ।६।४।१२६॥ कालात् सोऽस्य प्राप्त इत्यर्थे य: स्यात् । काल्या मेघाः ।।१२६।। दीर्घः ।६।४।१२७॥ कालात् प्रथमान्तादस्येत्यर्थे इकण् स्यात् , प्रथमान्तश्चेद् दीर्घः । कालिकमृणम् ॥१२७॥ आकालिकमिकश्चाद्यन्ते ।६।४।१२८॥ आकालाद् इक इकण च भवत्यर्थे स्यात् , आदिरेव यदि अन्तः । आकालिकोऽनध्याय: , पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेधुरपि आ तस्मात् कालाद् भवतीत्यर्थः ; आकालिकी , आकालिका वा विद्युत् , आजन्मकालमेव स्यात् , जन्मान्तरनाशिनीत्यर्थः ।।१२८। १. मेव सती जन्मान्तर J2 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy