SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् , मरिचं वा ॥९१|| तुरायण-पारायणं यजमाना-ऽधीयाने।६।४।९२॥ आभ्यां द्वितीयान्ताभ्यां यथासंख्यं यजमाना-ऽधीयानयोरिकण् स्यात् । तौरायणिकः , पारायणिकः ॥९२॥ । संशयं प्राप्ते ज्ञेये ।६।४।९३॥ संशयमिति द्वितीयान्तात् प्राप्ते ज्ञेयेऽर्थे इकण् स्यात् । सांशयिकोऽर्थः ।।९३।। तस्मै योगादेः शक्ते ।६।४।९४॥ एभ्यस्तस्मै इति चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण् स्यात् । यौगिकः , सान्तापिक: ||९४|| योग-कर्मभ्यां योको।६।४।९५॥ आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथासंख्यं योकञौ स्याताम् । योग्य: , कार्मुकम् ||९५॥ यज्ञानां दक्षिणायाम् ।६।४।९६॥ एभ्य: षष्ठ्यन्तेभ्यो दक्षिणायामर्थे इकण् स्यात् । आग्निष्टोमिकी ।।९६।। तेषु देये।६।४।९७॥ यज्ञार्थेभ्य: सप्तम्यन्तेभ्यो देयेऽर्थे इकण् स्यात् । वाजपेयिकं भक्तम् ।।९७।। काले कार्ये च भववत् ।६।४।९८॥ कालार्थात् सप्तम्यन्ताद् देये कार्ये चार्थे भवे इव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् , तथा कार्यं देयं च ।।९८।। व्युष्टादिष्वण् ।६।४।९९॥ एभ्य: सप्तम्यन्तेभ्यो देये कार्ये चाऽण् स्यात् । वैयुष्टम् , नैत्यम् ।।९९।। यथाकथाचाण्णः ।६।४।१००॥ अस्माद् देये कार्ये चार्थे ण: स्यात् । याथाकथाचम् ॥१००|| तेन हस्ताद् यः ।।४।१०१॥ तेनेति तृतीयान्ताद् हस्ताद् देये कार्ये च य: स्यात् । हस्त्यम् ।।१०१।। शोभमाने।६।४।१०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy