SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं टान्ताच्छोभमाने इकण् स्यात् । कार्णवेष्टकिकं मुखम् ॥१०२॥ कर्म-वेषाद् यः | ६|४|१०३ ॥ आभ्यां टान्ताभ्यां शोभमानेऽर्थे यः स्यात् । कर्मण्यं शौर्यम्, वेष्यो नटः ।। १०३।। ३६२ कालात् परिजय्य-लभ्य- कार्य - सुकरे |६|४|१०४ ॥ कालविशेषार्थाट्टान्तात् परिजय्यादावर्थे इकण् स्यात् । मासिको व्याधिः पटः चान्द्रायणं प्रासादो वा ॥ १०४ ॥ | निर्वृत्ते |६|४|१०५॥ कालार्थाट्टान्ताद् निर्वृत्तेऽर्थे इण् स्यात् | आह्निकम् ||१०५ || तं भावि भूते | ६|४|१०६॥ - मिति द्वितीयान्तात् कालार्थाद् भाविनि भूते चार्थे इकण् स्यात् । मासिक उत्सवः ||१०६ ॥ तस्मै भृता ऽधीष्टे च |६|४|१०७॥ तस्मै इति चतुर्थ्यन्तात् कालार्थाद् भृतेऽधीष्टे चार्थे इकण् स्यात् । मासिकः कर्मकर:, उपाध्यायो वा ॥ १०७ ॥ षण्मासादवयसि ण्येकौ | ६|४|१०८ || , अस्मात् कालार्थात् तेन निर्वृत्ते तं भाविनि भूते, तस्मै भृताऽधीष्टे चेति विषये ण्य इकश्च स्याद्, अवयसि गम्यमाने । षाण्मास्यः, षण्मासिकः || १०८ || समाया ईनः | ६|४|१०९॥ अस्मात् तेन निर्वृत्ते इत्यादिपञ्चद्विषये ईनः स्यात् । समीनः || १०९ || रात्र्यहः-संवत्सराच्च द्विगोर्वा | ६|४|११० ॥ रात्र्याद्यन्तात् समान्ताच्च द्विगोस्तेन निर्वृत्त इत्यादिपञ्चद्विषये ईनो वा स्यात् । द्विरात्रीणः, द्वैरात्रिकः; द्वयहीनः, द्वैयह्निक: ; द्विसंवत्सरीणः, द्विसांवत्सरिक: द्विसमीन:, द्वैसमिकः ||११०|| ; वर्षादश्च वा | ६ |४|१११॥ कालवाचिवर्षान्ताद् द्विगोस्तेन निर्वृत्ते इत्यादिपञ्चद्विषये अ ईनश्च वा स्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy