________________
स्वोपज्ञलघुवृत्तिविभूषितं
देवव्रतादीन् डिन् ।६।४।८३॥ एभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् स्यात् । देवव्रती , महाव्रती ||८३॥
डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ।६।४८४॥ वर्षाणामष्टाचत्वारिंशतो द्वितीयान्ताचरत्यर्थे डको डिन् च स्यात् । अष्टाचत्वारिंशकः , अष्टाचत्वारिंशी ।।८४।।
चातुर्मास्यं तौ यलुक् च ।६।४।८५॥ अस्माद् द्वितीयान्तात् चरत्यर्थे डक-डिनौ स्याताम् , यलुक् च । चातुर्मासक: , चातुर्मासी ॥८५।।
क्रोश-योजनपूर्वाच्छता योजनाचाऽभिगमा ।६।४।८६॥ क्रोशपूर्वाद् योजनपूर्वाच्च शताद् योजनाच्च पञ्चम्यन्तादभिगमाहेऽर्थे इकण् स्यात् । क्रौशशतिको मुनिः , यौजनशतिकः , यौजनिकः ।।८६।।
तद् यात्येभ्यः ।६।४।८७॥ तदिति द्वितीयान्तेभ्य एभ्यः क्रोशशत-योजनशत-योजनेभ्यो याति गच्छत्यर्थे इकण् स्यात् । क्रौशशतिकः , यौजनशतिकः , यौजनिको दूतः ॥८७||
पथ इकट् ।६।४।८८॥ पथो द्वितीयान्ताद् यात्यर्थे इकट् स्यात् । पथिकी ।।८८।।
नित्यं णः पन्थश्च ।६।४।८९॥ पथो द्वितीयान्ताद् नित्यं यात्यर्थे ण: स्यात् , पन्थ् चास्य । पान्थः ।।८९।। शङ्कत्तर-कान्तारा-ऽज-वारि-स्थल-जङ्गलादेस्तेनाऽऽहृते च।६।४।९०॥ __ शक्कादिपूर्वपदात् पथिन्नन्तात् , तेनेति तृतीयान्तादाहते याति चार्थे इकण् स्यात् । शाङ्कुपथिक: , औत्तरपथिक: , कान्तारपथिकः , आजपथिकः , वारिपथिकः , स्थालपथिक: , जाङ्गलपथिकः ॥९०।।
स्थलादेर्मधुक-मरिचेऽण् ।६।४।९१॥ स्थलपूर्वपदात् पथिन्नन्तादाहृते मधुके मरिचे चार्थेऽण् स्यात् । स्थालपथं मधुकम् १. पान्था स्त्री, पान्थः पासं२, J3 ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org