SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३५९ तत्रेति सप्तम्यन्ताद् नियुक्तेऽर्थे इकण् स्यात् । शौल्कशालिकः ।।७४।। __ अगारान्तादिकः ।६।४।७५॥ अस्मात् तत्र नियुक्ते इक: स्यात् । देवागारिकः ।।७५।। __ अदेश-कालादध्यायिनि ।६।४।७६॥ अध्ययनस्य यौ प्रतिषिद्धौ देश-कालौ तदर्थात् सप्तम्यन्तादध्यायिन्यर्थे इकण् स्यात् । आशुचिकः , सान्ध्यिकः ।।७६।। निकटादिषु वसति ।६।४।७७॥ एभ्य: सप्तम्यन्तेभ्यो वसत्यर्थे इकण् स्यात् । नैकटिकः , आरण्यिको भिक्षुः , वार्भमूलिकः ॥७७|| सतीर्थ्यः ।६।४७८॥ समानतीर्थात् तत्र वसत्यर्थे यो निपात्यते समानस्य च सभाव:] | सतीर्थ्य: ७८॥ प्रस्तार-संस्थान-तदन्त-कठिनान्तेभ्यो व्यवहरति ।६।४।७९॥ प्रस्तार-संस्थानाभ्यां तदन्तेभ्य: कठिनान्ताच्च व्यवहरत्यर्थे इकण् स्यात् । प्रास्तारिक: , सांस्थानिकः , कांस्यप्रस्तारिकः , गौसंस्थानिकः , वांसकठिनिकः ||७९।। संख्यादेश्वाऽऽर्हदलुचः ।६।४।८०॥ अर्हदर्थमभिव्याप्य या प्रकृतिर्वक्ष्यते तस्या: केवलाया: संख्यापूर्वायाश्च वक्ष्यमाण: प्रत्यय: स्यादिति ज्ञेयम् , न चेत् सा लुगन्ता । चान्द्रायणिक: , द्वैचन्द्रायणिकः । अलुच इति किम् ? द्विशूर्पण क्रीतेन क्रीतं द्विशौर्पिकम् ।।८०।। गोदानादीनां ब्रह्मचर्ये ।६।४।८१॥ एभ्य: षष्ठयन्तेभ्यो ब्रह्मचर्येऽर्थे इकण् स्यात् । गौदानिकम् , आदित्यव्रतिकम् ||८|| चन्द्रायणं च चरति ।६।४।८२॥ अस्माद् द्वितीयान्ताद् गोदानादेश्च चरत्यर्थे इकण् स्यात् । चान्द्रायणिक: गौदानिकः ।।८।। १. [ ] P3सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy