SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३५८ स्वोपज्ञलघुवृत्तिविभूषितं एभ्यस्तदस्य प्रहरणमित्यर्थे टीकण् वा स्यात् । ऐष्टीकी , ऐष्टिकी ; ऐषीक: , ऐषिकः ॥६५॥ नास्तिका-ऽऽस्तिक-दैष्टिकम् ।६।४।६६॥ एते तदस्येत्यर्थे इकणन्ता निपात्यन्ते । नास्तिक: , आस्तिकः , दैष्टिक: ॥६६॥ वृत्तोऽपपाठोऽनुयोगे।६।४।६७॥ प्रथमान्तात् षष्ठचर्थे इकण् स्यात् , तच्चेदनुयोगविषये वृत्तोऽपपाठ: । ऐकान्यिक: ॥६७|| बहुस्वरपूर्वादिकः ।६।४।६८॥ बहुस्वरं पूर्वपदं यस्य तस्मात् प्रथमान्तात् षष्ठ्यर्थे इक: स्यात् , तच्चेत् परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥६८|| भक्ष्यं हितमस्मै ।६।४।६९॥ प्रथमान्ताद् अस्मै इति चतुर्थ्यर्थे इकण् स्यात् , तच्चेत् भक्ष्यं हितम् । आपूपिक: ॥६९।। नियुक्तं दीयते ।६।४।७०॥ प्रथमान्तात् चतुर्थ्यर्थे इकण् स्यात् , तच्चेत् नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥७०।। श्राणा-मांसौदनादिको वा ।६।४।७१॥ आभ्यां तदस्मै नियुक्तं दीयते इति विषये इको वा स्यात् । श्राणिका , श्राणिकी । मांसौदनिका , मांसौदनिकी ।।७१।। भक्तौदनाद्वाऽणिकट् ।६।४।७२॥ आभ्यां यथासंख्यमण्-इकटौ वा स्याताम् , तदस्मै नियुक्तं दीयते इति विषये । भाक्तः , ओदनिकी ; भाक्तिक: , औदनिकः ।।७२।। नवयज्ञादयोऽस्मिन् वर्तन्ते ।६।४।७३॥ एभ्य: प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण् स्यात् । नावयज्ञिक: , पाकयज्ञिकः ।।७३।। ___ तत्र नियुक्ते ।६।४।७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy