________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३५७
एभ्यस्तदस्य पण्यमिति विषये इकट् स्यात् । किशरिकी , तगरिकः ।।५५।।
शलालुनो वा ।६।४॥५६॥ अस्मात् तदस्य पण्यमिति विषये इकट् वा स्यात् । शलालुकी , शालालुकी ||५६।।
शिल्पम् ।६।४।५७॥ प्रथमान्तादस्येत्यर्थे इकण् स्यात् , तच्छिल्पं चेत् । नार्त्तिकः ।।५७||
मड्डुक-झर्झराद् वाऽण् ।६।४।५८॥ आभ्यां तदस्य शिल्पमिति विषयेऽण् वा स्यात् । माड्डुकः , माड्डुकिक: ; झाईर: , झाझरिकः ।।५८॥
शीलम् ।६।४।५९॥ प्रथमान्तात् शीलार्थात् षष्ठ्यर्थे इकण् स्यात् । आपूपिकः ।।५९।।
अस्थाच्छत्राऽऽदेरञ् ।६।४।६०॥ अङन्तात् स्थः , छत्रादेश्च तदस्य शीलमिति विषयेऽञ् स्यात् । आस्थः , छात्रः , तापस: ।।६०||
तूष्णीकः ।६।४।६॥ तूष्णीमस्तदस्य शीलमिति विषये को म्लुक् च स्यात् । तूष्णीकः ।।६१।।
प्रहरणम् ।६।४।६२॥ प्रथमान्तात् षष्ठ्यर्थे इकण् स्यात् , तत् प्रहरणं चेत् । आसिकः ।।६२।।
परश्वधाद् वाऽण् ।६।४।६३॥ अस्मात् तदस्य प्रहरणमिति विषयेऽण् वा स्यात् । पारश्वधः , पारश्वधिक: ॥६३||
शक्ति-यष्टेष्टीकण् ।६।४।६४॥ आभ्यां तदस्य प्रहरणमिति विषये टीकण् स्यात् । शाक्तीकी , याष्टीकी ||६४||
वेष्टयादिभ्यः ।६।४।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org