SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३५६ स्वोपज्ञलघुवृत्तिविभूषितं शाब्दिक-दादरिक-लालाटिक-कौक्कुटिकम् ।६।४।४५॥ एते इकणन्ता निपात्यन्ते । शाब्दिको वैयाकरण: , दार्दरिको वादित्रकृत् , लालाटिक: प्रमत्त: सेवाकृत् , कौक्कुटिको भिक्षुः ।।४५।। समूहार्थात् समवेते ।६।४।४६॥ अस्माद् द्वितीयान्तात् समवेतेऽर्थे इकण् स्यात् । सामूहिकः , सामाजिक: ॥४६॥ पर्षदो ण्यः ।६।४।४७॥ अस्माद् द्वितीयान्तात् समवेते ण्य: स्यात् । पार्षद्यः ॥४७॥ सेनाया वा ।६।४॥४८॥ अस्माद् द्वितीयान्तात् समवेते ण्यो वा स्यात् । सैन्यः , सैनिकः ॥४८|| धर्मा-ऽधर्माच्चरति ।६।४।४९॥ आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण् स्यात् । धार्मिक: , आधर्मिकः ।।४९|| षष्ठया धर्ये ।६।४।५०॥ षष्ठयन्ताद् धर्मादनपेते इकण् स्यात् । शौल्कशालिकम् ।।५०।। ऋन्नरादेरण् ।६।४।५१॥ ऋदन्तान्नरादेश्च षष्ठयन्ताद् धर्येऽर्थेऽण् स्यात् । नारम् , नरस्य धर्म्यं नारम् , माहिषम् ॥५१॥ विभाजयितृ-विशसितुर्णीड्लुक् च ।६।४।५२॥ आभ्यां षष्ठयन्ताभ्यां धर्मेऽण् स्यात् , तद्योगे च विभाजयितुर्णिलुक् विशसितुश्चेड्लुक् । वैभाजित्रम् , वैशस्त्रम् ।५२।। - अवक्रये।६।४।५३॥ षष्ठयन्तादवक्रये भाटकेऽर्थे इकण स्यात् । आपणिकः ।।।५३।। _तदस्य पण्यम् ।६।४।५४॥ तदिति प्रथमान्ताद् विक्रेयार्थाद् अस्येति षष्ठ्यर्थे इकण् स्यात् । आपूपिक: ॥५४|| किशरादेरिकट ।६।४।५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy