SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अस्माद् द्वितीयान्तान्निन्द्ये गृह्णति इकट् स्यात् । कुसीदिकी ।।३।। दशैकादशादिकश्च ।६।४।३६॥ अस्माद् द्वितीयान्तान्निन्द्ये गृह्णति इक इकट् च स्यात् । दशैकादशिका , दशैकादशिकी ॥३६॥ अर्थ-पद-पदोत्तर-ललाम-प्रतिकण्ठात् ।६।४।३७॥ अर्थात् , पदात् , पदशब्द उत्तरपदं यस्य तस्मात् , ललाम-प्रतिकण्ठाभ्यां च द्वितीयान्ताभ्यां गृह्णति इकण् स्यात् । आर्थिकः , पादिकः , पौर्वपदिकः , लालामिकः , प्रातिकण्ठिकः ।।३७।। परदारादिभ्यो गच्छति ।६।४॥३८॥ एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण् स्यात् । पारदारिक: , गौरुदारिक: ॥३८॥ प्रतिपथादिकश्च ।६।४॥३९॥ अस्माद् द्वितीयान्ताद् गच्छति इक इकण् च स्यात्। प्रतिपथिक: , प्रातिपथिक: ||३९।। माथोत्तरपद-पदव्याक्रन्दाद् धावति ।६।४॥४०॥ माथ उत्तरपदं यस्य तस्मात् , पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां धावत्यर्थे इकण् स्यात् । दाण्डमाथिकः , पादविक: , आक्रन्दिकः ॥४०॥ पश्चात्यनुपदात् ।६।४॥४१॥ पश्चादादनुपदाद् द्वितीयान्ताद् धावति इकण् स्यात् । आनुपदिकः ॥४१।। सुस्मातादिभ्यः पृच्छति ।६।४॥४२॥ एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् स्यात् । सौस्नातिकः , सौखरात्रिक: ॥४२॥ प्रभूतादिभ्यो ब्रुवति ॥६॥४॥४३॥ एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् स्यात् । प्राभूतिकः , पार्याप्तिकः ।।४३।। __ माशब्द इत्यादिभ्यः ।६।४।४४॥ एभ्यो ब्रुवति इकण् स्यात् । माशब्दिक: , कार्यशब्दिक: ।।४४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy