________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अभिनिष्क्रामति द्वारे ।६।३।२०२॥ अमन्ताद् द्वारे निर्गच्छत्यर्थे यथाविहितं प्रत्यय: स्यात् । माथुरम् , नादेयम् , राष्ट्रियं द्वारम् ।।२०२॥
गच्छति पथि दूते ।६।३।२०३॥ अमन्तात् पथि दूते च गच्छत्यर्थे यथोक्तं प्रत्यय: स्यात् । स्रौघ्नः पन्था दूतो वा , ग्राम्य: ।।२०३।।
भजति ।६।३।२०४॥ अमो भजत्यर्थे यथोक्तं प्रत्यय: स्यात् । स्रौघ्न: , राष्ट्रियः ।।२०४||
महाराजादिकण् ।६।३।२०५॥ अतोऽमो भजतीकण् स्यात् । माहाराजिक: ।।२०५।।
अचित्ताददेशकालात् ।६।३।२०६॥ देशकालवर्जं यदचेतनं तदर्थादमो भजतीकण् स्यात् । आपूपिकः । अचित्तादिति किम् ? देवदत्तः । अदेशेत्यादि किम् ? सौघ्नः , हैमनः ।।२०६।।
वासुदेवा-ऽर्जुनादकः ।६।३।२०७॥ आभ्याममन्ताभ्यां भजत्यऽक: स्यात् । वासुदेवकः , अर्जुनकः ।।२०७||
___ गोत्र-क्षत्रियेभ्योऽकञ् प्रायः ।६।३।२०८॥ गोत्रार्थात् क्षत्रियार्थाच्चाऽमन्ताद् भजत्यकञ् प्राय: स्यात् । औपगवक: , नाकुलक: । प्राय: किम् ? पाणिनीयः ॥२०८।।
सरूपाद् द्रेः सर्वं राष्ट्रवत् ।६।३।२०९॥ राष्ट्रक्षत्रियार्थात् सरूपाद् यो द्विरुक्तः तदन्तस्याऽमो भजत्यर्थे सर्वं प्रकृति: प्रत्ययश्च राष्ट्रस्येव स्यात् । वायं माद्रं पाण्डयं वा भजति वृजिक: , मद्रक: , पाण्डवकः । सरूपादिति किम् ? पौरवीयम् ।।२०९।।
टस्तुल्यदिशि ।६।३।२१०॥ ट इति तृतीयान्तात् तुल्यदिक्केऽर्थे यथोक्तं प्रत्यय: स्यात् । सौदामनी विद्युत् ।।२१०||
१. द्वारे भिनिर्ग J3 ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org