SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं तसिः | ६ |३|२११ ॥ टाsन्तात् तुल्यदिक्के तसिः स्यात् । सुदामतो विद्युत् ॥ २११ ॥ यश्चोरसः ||६।३।२१२॥ ३५० अतः टाऽन्तात् तुल्यदिक्के य-तसी स्याताम् । उरस्य:, उरस्तः || २१२॥ सेर्निवासादस्य | ६ | ३।२१३॥ सेरिति प्रथमान्तान्निवासार्थाद्, अस्येति षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः नादेयः ||२१३|| , आभिजनात् |६|३|२१४॥ अभिजनः पूर्वबान्धवाः, तन्निवासार्थात् स्यन्तात् षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः राष्ट्रियः || २१४ || शण्डिकादेर्ण्यः । ६।३।२१५।। अस्मात् स्यन्तादाभिजननिवासार्थाद् अस्येत्यर्थे ण्यः स्यात् । शाण्डिक्य: ; कौचवार्यः ।।२१५।। " सिन्ध्वादेरञ् |६|३|२१६ ॥ अस्मात् स्यन्तादाभिजननिवासार्थाद् षष्ठयर्थेऽञ् स्यात् । सैन्धवः, वार्णवः ॥२१६॥ सलातुरादीयण् | ६|३।२१७॥ अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठ्यर्थे ईयण् स्यात् । सालातुरीयः पाणिनिः || २१७| तूदी - वर्मत्या एयण | ६|३|२१८॥ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्ठ्यर्थे एयण् स्यात् । तौदेयः वार्मतेयः ॥२१८॥ गिरेरीयोऽस्त्राजीवे | ६ |३|२१९॥ गिरिर्य आभिजनो निवासस्तदर्थात् स्यन्तात् षष्ठयर्थेऽस्त्राजीवे ईयः स्यात् । हृद्गोलीयः ||२१९|| १. यथाविहितं J2 | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy