SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३४८ स्वोपज्ञलघुवृत्तिविभूषितं टान्तात् कृतेऽर्थे यथाविहितं प्रत्ययाः स्युः । शैवो ग्रन्थ: , सिद्धसेनीय: स्तवः ॥१९२।। नाम्नि मक्षिकादिभ्यः ।६।३।१९३॥ एभ्यष्टान्तेभ्यो यथाविहितं नाम्नि [कृते] प्रत्यय: स्यात् । माक्षिकं मधु , सारघम् ।।१९३|| कुलालादेरकञ्।६।३।१९४॥ एभ्यस्तेन कृतेऽकञ् स्यात् , नाम्नि । कौलालकं घटादिभाण्डम् , वारुटकं शूर्पपिटकादि ।।१९४।। सर्वचर्मण ईनेनौ ।६।३।१९५॥ तेन कृते नाम्नि स्याताम् । सर्वचक्षणः , सार्वचक्षणः ॥१९५।। उरसो या-ऽणौ ।६।३।१९६॥ तेन कृते स्याताम् , नाम्नि । उरस्य: , औरसः ।।१९६।। छन्दस्यः ।६।३।१९७॥ छन्दसस्तेन कृते यो नाम्नि निपात्य: ।।१९७।। अमोऽधिकृत्य ग्रन्थे ।६।३।१९८॥ द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्यय: स्यात् । भाद्रः ।।१९८।। ज्योतिषम् ।६।३।१९९॥ ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थेऽण् , वृद्धयभावश्च निपात्यः ॥१९९।। शिशुक्रन्दादिभ्य ईयः ।६।३।२००॥ एभ्योऽमोऽधिकृत्य कृते ग्रन्थे ईय: स्यात् । शिशुक्रन्दीय: , यमसभीयो ग्रन्थः ।।२००॥ द्वन्द्वात् प्रायः ।६।३।२०१॥ द्वन्द्वादमोऽधिकृत्य कृते ग्रन्थे प्राय ईय: स्यात् । वाक्यपदीयम् । प्राय: किम् ? दैवासुरम् ।।२०१॥ १. पिटिकादि J1,2,3 ।। २. कृतेऽर्थे पार । ग्रन्थे कृतेऽर्थे J1 । अमोऽर्थे P3मू०, अमोऽधिकृत्य कृते ग्रन्थेऽर्थ P3सं० ॥ ३. प्राय इति किम् P3सं० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy