SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यस्तेन प्रोक्ते यथाविहितमण् स्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदा: , पैप्पलादा: ।।१८२।। ___ कठादिभ्यो वेदे लुप् ।६।३।१८३॥ एभ्य: प्रोक्ते वेदे प्रत्ययस्य लुप् स्यात् । कठा: , चरका: ।।१८३।। तित्तिरि-वरतन्तु-खण्डिकोखादीयण् ।६।३।१८४॥ एभ्यस्तेन प्रोक्ते वेदे ईयण् स्यात् । तैत्तिरीयाः , वारतन्तवीयाः , खाण्डिकीया: औखीयाः ॥१८४॥ छगलिनो णेयिन् ।६।३।१८५॥ तेन प्रोक्ते वेदे णेयिन् स्यात् । छागलेयिनः ॥१८५|| शौनकादिभ्यो णिन् ।६।३।१८६॥ तेन प्रोक्ते वेदे णिन् स्यात् । शौनकिनः , शाङ्गरविण: ।।१८६।। पुराणे कल्पे ।६।३।१८७॥ टान्तात् प्रोक्ते पुराणे कल्पे णिन् स्यात् । पैङ्गी कल्पः ।।१८७|| ___ काश्यप-कौशिकाद् वेदवच्च ।६।३।१८८॥ आभ्यां तेन प्रोक्ते पुराणे कल्पे णिन् स्यात् , वेदवच्च कार्यमस्मिन् । काश्यपिन: , कौशिकिन: , काश्यपको धर्मः ॥१८८।। शिलालि-पाराशर्यान्नट-भिक्षुसूत्रे ।६।३।१८९॥ आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् स्यात् , वेदवच्च कार्यमस्मिन् । शैलालिनो नटा: , पाराशरिणो भिक्षवः ।।१८९।। कृशाश्व-कर्मन्दादिन् ।६।३।१९०॥ आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च इन्स्यात् , वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटा: , कर्मन्दिनो भिक्षवः ।।१९०॥ उपज्ञाते ।६।३।१९१॥ प्रागुपदेशाद् विना वा ज्ञाते टान्ताद् यथाविहितं प्रत्यय: स्यात् । पाणिनीयं शास्त्रम् ।।१९१।। कृते ।६।३।१९२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy