________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
षात्वणत्विकम् । प्रायोग्रहणात् सांहितम् || १४३ || ऋगृद्-द्विस्वर-यागेभ्यः । ६।३।१४४॥
ऋच ऋदन्ताद् द्विस्वराद् यागार्थेभ्यश्च ग्रन्थवृत्तिभ्यस्तस्य व्याख्याने तत्र भवे चेकण् स्यात् । आर्चिकम् चातुर्होतृकम्, आङ्गिकम्, राजसूयकम् ॥ १४४ ॥ ऋपेरध्याये | ६ | ३ | १४५ ॥
,
ऋष्यर्थाद् ग्रन्थवृत्तेस्तस्य व्याख्याने तत्र भवे चाऽध्याये इकण् स्यात् । वाशिष्ठिकोऽध्यायः । अध्याय इति किम् ? वाशिष्ठी ऋक् ॥ १४५ ॥
पुरोडाश-पौरोडाशादिकेकटी | ६ | ३ | १४६ ||
"
आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्र भवे चेक इकट् च स्यात् । पुरोडाशिका पुरोडाशिकी ; पौरोडाशिका, पौरोडाशिकी ॥ १४६ ॥
छन्दसो यः | ६ | ३|१४७॥
"
अस्माद् ग्रन्थार्थात् तस्य व्याख्याने तत्र भवे च यः स्यात् । छन्दस्यः || १४७|| शिक्षादेश्वाण | ६ |३|१४८ ॥
३४३
एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे चाऽण् स्यात् । शैक्षः आर्गयनः छान्दसः || १४८ ||
तत आग | ६ | ३ | १४९ ॥
7
।। १५१ ।।
तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितमण्- एयणादयः स्युः । स्रौघ्नः गव्यः, नादेयः, ग्राम्यः || १४९||
विद्या - योनिसम्बन्धादकञ् |६|३|१५०॥
विद्याकृतो योनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादाऽऽगतेऽर्थेऽकञ् स्यात् । आचार्यकम् पैतामहकम् ॥ १५०॥
पितुर्यो वा । ६।३।१५१ ॥ पितुर्योनिसम्बन्धार्थात् पञ्चम्यन्तादागते यो वा स्यात् । पित्र्यम्, पैतृकम्
.
Jain Education International
ऋत इण् । ६।३।१५२।।
ऋदन्ताद् विद्या-योनिसम्बन्धार्थात् तत आगते इण् स्यात् । होतृकम्,
For Private & Personal Use Only
www.jainelibrary.org