________________
३४४
स्वोपज्ञलघुवृत्तिविभूपितं
मातृकम् ।।१५२॥
आयस्थानात् ।६।३।१५३॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदर्थात् तत आगते इकण् स्यात् । आतरिकम्
||१५३॥
शुण्डिकादेरण् ।६।३।१५४॥ एभ्यस्तत आगतेऽण् स्यात् । शौण्डिकम् , औदपानम् ।।१५४||
गोत्रादङ्कवत् ।६।३।१५५॥ गोत्राथात् तत आगतेऽङ्के इव प्रत्यय: स्यात् । बैदम् , औपगवकम् ।।१५५।।
नृ-हेतुभ्यो रूप्य-मयटौ वा ।६।३।१५६॥ पुमर्थाद् हेत्वर्थाच्च तत आगते एतौ वा स्याताम् । चैत्ररूप्यम् , चैत्रमयम् , चैत्रीयम् ; समरूप्यम् , सममयम् , समीयम् ।।१५६।।
प्रभवति ।६।३।१५७॥ पञ्चम्यन्तात् प्रागुपलभ्ये यथाविहितं प्रत्ययाः स्युः । हैमवती गङ्गा ।।१५७।।
वैडूर्यः ।६।३।१५८॥ विडूरात् ततः प्रभवति ज्य: स्यात् । वैडूर्यो मणिः ॥१५८||
त्यदादेर्मयट् ।६।३।१५९॥ एभ्यस्ततः प्रभवति मयट् स्यात् । तन्मयम् , भवन्मयी ॥१५९||
तस्येदम् ।६।३।१६०॥ तस्येति षष्ठयन्ताद् इदमित्यर्थे यथाविहितं प्रत्ययाः स्युः । माथुरम् , दैत्यम् , कालेयम् , नादेयम् , पारीण: , भानवीयः ।।१६०॥
हल-सीरादिकण् ।६।३।१६१॥ आभ्यां तस्येदमर्थे इकण् स्यात् । हालिकम् , सैरिकम् ।।१६१।।
समिध आधाने टेन्यण् ।६।३।१६२॥ समिधस्तस्येदमाधानमित्यर्थे टेन्यण् स्यात् । सामिधेन्यो मन्त्रः ॥१६२।।
विवाहे द्वन्द्वादकल् ।६।३।१६३॥ द्वन्द्वात् तस्येदमर्थे विवाहेऽकल् स्यात् । अत्रिभरद्वाजिका ।।१६३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org