SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं यज्ञे ञ्यः | ६|३|१३४॥ चतुर्मासात् तत्र भवे यज्ञे ञ्यः स्यात् । चातुर्मास्या यज्ञाः || १३४ || गम्भीर-पञ्चजन-बहिर्देवात् । ६।३।१३५॥ एभ्यस्तत्र भवे ञ्यः स्यात् । गाम्भीर्यः पाञ्चजन्यः बाह्य: ||१३५|| ३४२ " , परिमुखादेरव्ययीभावात् । ६।३।१३६॥ अस्मात् तत्र भवे ञ्यः स्यात् । पारिमुख्यः, पारिहनव्यः || १३६ || अन्तः पूर्वादिकण | ६ |३|१३७॥ , अन्तः पूर्वपदादव्ययीभावात् तत्र भवे इकण् स्यात् । आन्तरगारिकः || १३७|| पर्यनोग्रमात् | ६ | ३|१३८ । आभ्यां परो यो ग्रामस्तदन्तादव्ययीभावाद् भवे इकणू स्यात् । पारिग्रामिक: आनुग्रामिकः || १३८ || उपाज्जानु-नीवि-कर्णात् प्रायेण |६|३|१३९|| Jain Education International 7 उपाद् ये जान्वादयस्तदन्तादव्ययीभावादिकण् स्यात् प्रायेण तत्र भवे । औपजानुकः सेवकः, औपनीविकं ग्रीवादाम, औपकर्णिकः सूचकः || १३९ || रूढावन्तः पुरादिकः | ६ |३|१४० ॥ 7 दैव्यः For Private & Personal Use Only अस्मात् तत्र भवे इकः स्यात्, रूढौ गम्यायाम् । अन्तःपुरिका | रूढाविति किम् ? आन्तःपुरः || १४०|| कर्ण- ललाटात् कल् |६|३|१४१।। आभ्यां तत्र भवे कल् स्यात् तदन्तस्य रूढौ । कर्णिका कर्णाभरणम्, ललाटिका ललाटमण्डनम् ॥१४१॥ तस्य व्याख्याने च ग्रन्थात् |६|३|१४२॥ तस्येति षष्ठयन्ताद् व्याख्यानेऽर्थे, सप्तम्यन्ताच्च भवे ग्रन्थार्थाद् यथाविहितं प्रत्ययः स्यात् । कार्त्तम्, प्रातिपदिकीयं व्याख्यानं भवं वा || १४२ || प्रायो बहुस्वरादिकण् । ६।३।१४३॥ बहुस्वराद् ग्रन्थार्थात् तस्य व्याख्याने, तत्र भवे च प्राय इण् स्यात् । www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy