SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् दिगादेर्देहावयवार्थाच्च सप्तम्यन्ताद् भवे य: स्यात् । दिश्य: , अप्सव्यः , मूर्धन्यः ॥१२४॥ नाम्न्युदकात् ।६।३।१२५॥ उदकात् सप्तम्यन्ताद् भवेऽर्थे यो नाम्नि स्यात् । उदक्या रजस्वला ॥१२५।। मध्याद् दिनण-णेया मोऽन्तश्च ।६।३।१२६॥ मध्यात् सप्तम्यन्ताद् भवे एते स्युः , तद्योगे च मन्तः । माध्यन्दिना: , माध्यमः , मध्यमीयः ।।१२६।।। जिह्वामूला-ऽङ्गुलेश्चयः ।६।३।१२७॥ आभ्यां सप्तम्यन्ताभ्यां मध्याच्च भवे ईय: स्यात् । जिह्वामूलीयः , अङ्गुलीय: , मध्यीय: ।।१२७|| वर्गान्तात् ।६।३।१२८॥ अस्मात् सप्तम्यन्ताद् भवे ईय: स्यात् । कवर्गीयो वर्णः ।।१२८।। ईन-यौ चाशब्दे ।६।३।१२९॥ वर्गान्तात् सप्तम्यन्ताद् भवे एतावीयश्च स्युः , न तु शब्दे । भरतवर्गीण: , भरतवर्यः , भरतवर्गीय: । शब्दे तु कवर्गीयः ।।१२९।। दृति-कुक्षि-कलशि-वस्त्यहेरेयण् ।६।३।१३०॥ एभ्य: सप्तम्यन्तेभ्यो भवे एयण् स्यात् । दार्तेयं जलम् , कौक्षेयो व्याधि: , कालशेयं तक्रम् , वास्तेयं पुरीषम् , आहेयं विषम् ।।१३०।। - आस्तेयम् ।६।३।१३१॥ अस्तेर्धन-विद्यमानार्थात् तत्र भवे एयण् स्यात् , असृजो वा अस्त्यादेशश्च । आस्तेयम् ॥१३१।। ग्रीवातोऽण् च ।६।३।१३२॥ अतो भवेऽणेयणौ स्याताम् । ग्रैवम् , ग्रैवेयम् ।।१३२।। चतुर्मासानाम्नि ।६।३।१३३॥ अस्मात् तत्र भवेऽण् स्यात् , नाम्नि । चातुर्मासी आषाढ्यादिपौर्णमासी ।।१३३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy