________________
स्वोपज्ञलघुवृत्तिविभूपितं
अनयोर्मध्यार्थान्मध्याच्छेषेऽर्थे अ: स्यात् । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो विद्वान् ॥७७||
अध्यात्मादिभ्य इकण् ।६।३।७८॥ एभ्यः शेषेऽर्थे इकण् स्यात् । आध्यात्मिकम् , आधिदैविकम् ।।७८।।
समानपूर्व-लोकोत्तरपदात् ।६।३।७९॥ समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् । सामानग्रामिकः , ऐहलौकिक: ।।७९।।
___ वर्षा-कालेभ्यः ।६।३१८०॥ वर्षाया: कालविशेषार्थाच्च शेषेऽर्थे इकण् स्यात् । वार्षिक: , मासिकः ।।८।।
__ शरदः श्राद्धे कर्मणि ।६।३।८१॥ अस्मात् पितृकार्ये शेषेऽर्थे इकण् स्यात् । शारदिकं श्राद्धम् ।।८१।।
नवा रोगा-ऽऽतपे।६।३।८२॥ शरदो रोगे आतपे च शेषेऽर्थे इकण् वा स्यात् । शारदिकः , शारदो रोग आतपो वा ।।८।।
निशा-प्रदोषात् ।६।३।८३॥ आभ्यां शेषेऽर्थे इकण् वा स्यात् । नैशिक: , नैशः ; प्रादोषिक: , प्रादोष:
॥८३॥
श्वसस्तादिः ।६।३।८४॥ श्वस: कालार्थाच्छेषेऽर्थे तादिरिकण् वा स्यात् । शौवस्तिक: ; श्वस्त्यः ।।८४।।
चिर-परुत्-परारेस्त्नः ।६।३।८५॥ एभ्यः शेषेऽर्थे त्नो वा स्यात् । चिरत्नम् , परुत्नम् , परारित्नम् ; चिरंतनम् , प्ररुत्तनम् , परारितनम् ।।८५।।
पुरो नः ।६।३।८६॥ पुराशब्दात् कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम् , पुरातनम् ।।८६।।
पूर्वाह्ला-ऽपराह्णात् तनट् ।६।३।८७॥ १. मध्यमपरि पार ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org