________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३३७
आभ्यां शेषेऽर्थे तनड् वा स्यात् । पूर्वाह्नेतन: , अपराह्नेतन: ; पौर्वाह्निक: , आपराह्निकः ।।८७॥
सायं-चिरं-प्रारू-प्रगे-ऽव्ययात् ।६।३।८८॥ - एभ्योऽव्ययाच्च कालार्थाच्छेषेऽर्थे तनड् नित्यं स्यात् । सायंतनम् , चिरन्तनम् , प्रारूतनम् , प्रगेतनम् , दिवातनम् ॥८८||
भर्तु-सन्ध्यादेरण् ।६।३।८९॥ भं नक्षत्रम् , तदर्थाद् , ऋत्वर्थात् सन्ध्यादेश्च कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौषः , ग्रैष्मः , सान्ध्यः , आमावास्यः ।।८९॥
संवत्सरात् फल-पर्वणोः ।६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा ।।९०।।
हेमन्ताद् वा , तलुक् च ।६।३।९१॥ अस्माच्छेषेऽर्थेऽण् वा स्यात् , तद्योगे च तो वा लुक् । हैमनम् , हैमन्तम् , हैमन्तिकम् ।।९१॥
प्रावृष एण्यः ।६।३।९२॥ अस्माच्छेषेऽर्थे एण्य: स्यात् । प्रावृषेण्यः ।।१२।।
स्थामा-ऽजिनान्ताल्लुप् ।६।३।९३॥ स्थामान्तादजिनान्ताच्च परस्य शैषिकस्य लुप् स्यात् । अश्वत्थामा , सिंहाजिनः
||९३॥
तत्र कृत-लब्ध-क्रीत-सभ्भूते ।६।३।९४॥ तत्रेति सप्तम्यन्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः । स्रौनः , औत्स: , बाह्यः , नादेयः , राष्ट्रियः ॥९४||
कुशले ।६।३।९५॥ सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादयः स्यु: । माथुर: , नादेयः॥९५।।
पथोऽकः ।६।३।९६॥ सप्तम्यन्तात् पथ: कुशलेऽक: स्यात् । पथकः ।।९६।।
कोऽश्मादेः ।६।३।९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org