________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३३५
; युष्मदीयः , अस्मदीय: ; तावक: , तावकीनः , मामकः , मामकीन: ; त्वदीयः , मदीयः ।।६७।।
द्वीपादनुसमुद्रं ण्यः ।६।३।६८॥ समुद्रसमीपे यो द्वीप: तदर्थात् शेषेऽर्थे ण्य: स्यात् । द्वैप्यो ना तद्वासो वा ॥६८||
अर्धाद् यः ।६।३।६९॥ [अर्धशब्दाच्छेषे य: स्यात् । ] अय॑म् ॥६९।।
सपूर्वादिकण् ।६।३।७०॥ सपूर्वपदादर्धाच्छेषेऽर्थे इकण् स्यात् । पौष्करार्धिकः ॥७०||
दिक्पूर्वात् तौ ।६।३।७१॥ दिगर्थपूर्वपदादर्धाच्छेषेऽर्थे येकणौ स्याताम् । पूर्वार्ध्यम् , पौर्वाधिकम् ।।७।।
ग्राम-राष्ट्रांशादणिकणौ ।६।३।७२॥ ग्राम-राष्ट्रयोर्भागार्थादर्धात् दिक्पूर्वाच्छेषेऽणिकणौ स्याताम् । ग्रामस्य राष्ट्रस्य वा पौर्वार्धः , पौर्वार्धिकः ॥७२।।
परा-ऽवरा-ऽधमोत्तमादेर्यः ।६।३।७३॥ परादिपूर्वादर्धाच्छेषेऽर्थे य: स्यात् । पराय॑म् , अवराय॑म् , अधमाय॑म् , उत्तमाय॑म् ॥७३॥
अमोऽन्ता-ऽवो-ऽधसः ।६।३।७४॥ अन्तादे: शेषेऽर्थेऽम: स्यात् । अन्तमः , अवम: , अधमः ॥७४।।
पश्चादायन्ता-ऽग्रादिमः ।६।३।७५॥ [एभ्यः शेषेऽर्थे इम: स्यात् ।] पश्चिमः , आदिम: , अन्तिमः , अग्रिम:
॥७५||
मध्यान्मः ।६।३।७६॥ [मध्यशब्दाच्छेषेऽर्थे म: स्यात् ।] मध्ये जातो मध्यमः ||७६।।
मध्य उत्कर्षा-ऽपकर्षयोरः ।६।३।७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org