________________
३३४
स्वोपज्ञलघुवृत्तिविभूषितं
पर्वतात् ।६।३।६०॥ अस्माद् देशार्थाच्छेषे ईय: स्यात् । पर्वतीयो राजा ||६०॥
अनरे वा ।६।३।६१॥ पर्वताद् देशार्थान्नवर्जे शेषे ईयो वा स्यात् । पर्वतीयानि , पार्वतानि फलानि ।।६।।
पर्ण-कृकणाद् भारद्वाजात् ।६।३।६२॥ आभ्यां भारद्वाजदेशार्थाभ्यां शेषे ईय: स्यात् । पर्णीय: , कृकणीयः ॥६२।।
गहादिभ्यः ।६।३।६३॥ एभ्यो यथासम्भवं देशार्थेभ्य: शेषे ईय: स्यात् । गहीय: , अन्तस्थीयः ॥६३।।
पृथीवीमध्यान्मध्यमश्वास्य ।६।३।६४॥ अस्मात् देशार्थाच्छेषे ईय: स्यात् , प्रकृतेश्च मध्यमादेशः । मध्यमीयः ॥६४||
__निवासाचरणेऽण् ।६।३।६५॥ पृथिवीमध्यान्निवासदेशार्थाच्चरणे निवस्तरि शेषेऽर्थेऽण् स्यात् , मध्यमश्वास्य । माध्यमाश्चरणाः ॥६५।।
वेणुकादिभ्य ईयण् ।६।३।६६॥ एभ्यो यथायोगं देशार्थेभ्य: शेषे ईयण् स्यात् । वैणुकीयः , चैत्रकीयः ॥६६।।
वा युष्मदस्मदोऽजीनजौ युष्माका-ऽस्माकं चास्यैकत्वे तु तवकममकम् ।६।३।६७॥
आभ्यां शेषेऽर्थेऽञीनञौ वा स्याताम् , तद्योगे च यथासंख्यं युष्माका-ऽस्माको एकार्थयोस्तु तवक-ममकौ । यौष्माकी , यौष्माकीण: , आस्माकी , आस्माकीन: १. सिद्धहेमचन्द्रशब्दानुशासनस्य लघुवृत्तेव॒हद्वृत्तेश्च हस्तलिखितादर्शेषु अत्र 'चैत्रकीयः' इति पाठ: | P3 मध्ये "वेणव: सन्त्यत्र ऋश्यादेः कः [६।२।९८] । चित्रस्य तुल्य:, तस्य तुल्ये क: [७१११०८] वेणुके चित्रके वा भव:'' इति टिप्पनमपि वर्तते । किञ्च, जैनेन्द्रव्याकरणस्य अभयनन्दिप्रणीतायां जैनेन्द्रमहावृत्तौ अपि [३।२।११४] 'चैत्रकीयम्' इति पाठः । शाकटायनव्याकरणस्य स्वोपज्ञवृत्तावपि [३।११५६] 'चैत्रकीयः' इत्येव पाठ: । किन्तु पाणिनीयव्याकरणस्य [४।२।१३८] काशिकायां वृत्तौ चान्द्रव्याकरणवृत्तौ [३।२।६१] सरस्वतीकण्ठाभरणे [४।३।९२] च 'वैत्रकीय:' इति पाठः । वस्तुतो हस्तलिखितादर्शेषु 'च-व' इत्यनयोरक्षरयोः समानप्रायत्वात पाठनिर्णय: दुष्करः ।। ६।२।९२ सूत्रे नडादिगणे वेणु-वेत्र इति पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org