________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३३३
अरण्याद् देशार्थात् पथ्यादौ शेषेऽकञ् स्यात् । आरण्यक: पन्था न्यायोऽध्याय इभो नरो विहारो वा ।।५।।
गोमये वा ।६।३॥५२॥ अरण्याद् देशाच्छेषे गोमयेऽर्थेऽकञ् वा स्यात् । आरण्यका गोमया: , आरण्या वा ॥५२॥
कुरु-युगन्धराद् वा ।६।३॥५३॥ आभ्यां देशार्थाभ्यां शेषेऽकञ् वा स्यात् । कौरवक: , कौरव: ; यौगन्धरक: , यौगन्धरः ||५३||
साल्वाद् गो-यवाग्वपत्तौ ।६।३।५४॥ साल्वाद् देशार्थाद् गवि यवाग्वां पत्तिवर्जे च मनुष्ये शेषेऽर्थेऽकञ् स्यात् । साल्वको गौः , साल्विका यवागू: , साल्वको ना ।।५४।।
कच्छादेर्नु-नृस्थे ।६।३॥५५॥ अस्माद् देशार्थाद् नरि नृस्थे च शेषेऽर्थेऽकञ् स्यात् । काच्छको ना , काच्छकमस्य स्मितम् ।।५५॥
कोपान्त्याच्चाऽण् ।६।३।५६॥ कुपान्त्यात् कच्छादेश्च देशार्थाच्छेषेऽण् स्यात् । आर्षिक: , काच्छ: , सैन्धवः ॥५६॥
गतॊत्तरपदादीयः ।६।३।५७॥ अस्माद् देशार्थाच्छेषे ईय: स्यात् । श्वाविद्गीयः ।।५७||
कटपूर्वात् प्राचः ।६।३।५८॥ कटपूर्वपदात् प्राग्देशार्थाच्छेषे ईय: स्यात् । कटग्रामीय: ॥५८।। क-खोपान्त्य-कन्था-पलद-नगर-ग्राम-ह्रदोत्तरपदाद् दोः ।६।३।५९॥
कुपान्त्यात् खुपान्त्यात् कन्थाद्युत्तरपदाच देशार्थाद् दो: शेषेऽर्थे ईय: स्यात् | आरीहणकीय: , कौटशिखीयः , दाक्षिकन्थीयः , दाक्षिपलदीयः , दाक्षिनगरीय: , माहकिग्रामीय: , दाक्षिहदीयः ।।५९।।
१. अस्माद् P3 मध्ये नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org