________________
स्वोपज्ञलघुवृत्तिविभूषितं
प्राग्देशार्थादुवर्णान्ताद् दोरेवेकण् स्यात् । आषाढजम्बुकः ।।४।।
ईतोऽकञ् ।६।३।४१॥ ईदन्तात् प्राग्देशार्थाद् दोः शेषेऽकञ् स्यात् । काकन्दकः ॥४१।।
रोपान्त्यात् ।६।३॥४२॥ रोपान्त्यात् प्राचो दो: शेषेऽकञ् स्यात् । पाटलिपुत्रकः ॥४२।।
प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात् ।६।३।४३॥ प्रस्थ-पुर-वहान्तेभ्यो युपान्त्याद् धन्वार्थाच्च देशवृत्तेर्दोः शेषेऽकञ् स्यात् । मालाप्रस्थकः , नान्दीपुरकः , पैलुवहक: , साङ्काश्यकः , पारेधन्वकः ।।४३।।
राष्ट्रेभ्यः ।६।३॥४४॥ राष्ट्रार्थेभ्यो दुभ्यः शेषेऽकञ् स्यात् । आभिसारकः ।।४४।।
___ बहुविषयेभ्यः ।६।३॥४५॥ राष्ट्रेभ्यो बहुविषयेभ्यः शेषेऽकञ् स्यात् । आङ्गकः ॥४५॥
धूमादेः ।६।३।४६॥ अस्माद् देशवृत्तेः शेषेऽकञ् स्यात् । धौमक: , षाडण्डकः ।।४६।।
- सौवीरेषु कूलात् ।६।३।४७॥ सौवीरदेशार्थात् कूलात् शेषेऽकञ् स्यात् । कौलकः ।।४७।।
समुद्रान्नृ-नावोः ।६।३।४८॥ समुद्रा देशार्थाच्छेषेऽकञ् स्यात् , नरि नावि चार्थे। सामुद्रको ना , सामुद्रिका नौः । सामुद्रमन्यत् ॥४८॥
नगरात् कुत्सा-दाक्ष्ये ।६।३॥४९॥ नगराद् देशार्थाच्छेषेऽकञ् स्यात् , कुत्सायां दाक्ष्ये च गम्ये। चौरा हि नागरका: , दक्षा हि नागरकाः ॥४९।।
कच्छा-ऽग्नि-वक्त्र-वर्तोत्तरपदात् ।६।३।५०॥ कच्छाद्युत्तरपदाद् देशार्थाच्छेषेऽकञ् स्यात् । भारुकच्छक: , काण्डाग्नक: , ऐन्दुवक्त्रक: , बाहुवर्त्तकः ॥५०॥
अरण्यात् पथि-न्याया-ऽध्यायेभ-नर-विहारे ।६।३।५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org