________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३३१
[भवच्छशब्दाच्छेषेऽर्थे इकणीयसौ स्याताम् ।] भावत्कम् , भवदीयम् ।।३०॥
पर-जन-राज्ञोऽकीयः ।६।३॥३१॥ [एभ्य: शेषेऽर्थेऽकीय: स्यात् ।] परकीयः , जनकीयः , राजकीयः ।।३१।।
दोरीयः ।६।३।३२॥ [दुसंज्ञकाच्छेषेऽर्थे ईय: स्यात् ।] देवदत्तीयः , तदीयः ॥३२।।
उष्णादिभ्यः कालात् ।६।३॥३३॥ उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थे ईय: स्यात् । उष्णकालीयम् ।।३३।।
व्यादिभ्यो णिकेकणौ ।६।३॥३४॥ एभ्यो य: कालस्तदन्ताच्छेषेऽर्थे] णिक इकण् च स्यात् । वैकालिका , वैकालिकी ; आनुकालिका , आनुकालिकी ।।३४।।
काश्यादेः ।६।३॥३५॥ एभ्यो दुभ्यः शेषे णिकेकणौ स्याताम् । काशिका , काशिकी ; चैदिका , चैदिकी ॥३५॥
वाहीकेषु ग्रामात् ।६।३॥३६॥ एषु ग्रामाद् दोः शेषेऽर्थे णिकेकणौ स्याताम् । कारन्तपिका , कारन्तपिकी ||३६।।
वोशीनरेषु ॥६॥३॥३७॥ एषु ग्रामार्थाद् दो: शेषेऽर्थे णिकेकणौ वा स्याताम् । आह्वजालिका , आह्वजालिकी , आह्वजालीयः ।।३७||
वृजि-मद्राद् देशात् कः ।६।३॥३८॥ [वृजि-मद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः स्यात् ।] वृजिक: , मद्रक: ।।३८||
उवर्णादिकण् ।६।३।३९॥ उवर्णान्ताद् देशार्थाच्छेषे इकण् स्यात् । शाबरजम्बुक: ॥३९॥
दोरेव प्राचः ।६।३॥४०॥ १. णिकेकणौ स्याताम् पार ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org