________________
स्वोपज्ञलघुवृत्तिविभूषितं
वर्णदेशे या कन्था तत: शेषे[ऽर्थे ]ऽकञ् स्यात् । कान्थकः ||२१||
रूप्योत्तरपदा-ऽरण्याण्णः ।६।३॥२२॥ [रूप्योत्तरपदादरण्याच शेषेऽर्थे ण: स्यात् ।] वार्करूप्यः , आरण्या: सुमनसः ॥२२||
दिक्पूर्वादनाम्नः ।६।३॥२३॥ [दिक्पूर्वपदादनाम्नोऽसंज्ञाविषयात्] शेषे[ऽर्थे] ण: स्यात् । पौर्वशाल: । अनाम्न इति किम् ? पूर्वकार्ष्णमृत्तिकी ।।२३।।
___ मद्रादञ्।६।३।२४॥ मद्रान्ताद् दिक्पूर्वपदात् शेषे[ऽर्थे]ऽञ् स्यात् । पौर्वमद्री ॥२४॥
उदग्ग्रामाद् यकृल्लोम्नः ।६।३।२५॥ [उदग्ग्रामवाचिनो यकृल्लोमन्शब्दात्] शेषे[ऽर्थे]ऽञ् स्यात् । याकृल्लोमः । उदग्ग्रामादिति किम् ? अन्यस्मादण्-याकृल्लोमनः ॥२५।।
गौष्ठी-तैकी-नैकेती-गोमती-शूरसेन-वाहीक-रोमक-पटच्चरात् । ६।३।२६॥
एभ्य: शेषे[ऽर्थे]ऽञ् स्यात् । गौष्ठः , तैक: , नैकेत: , गौमत: , शौरसेन: , वाहीक: , रौमकः , पाटच्चरः ।।२६।।
शकलादेर्यत्रः ।६।३।२७॥ अस्माद् यजन्तात् शेषे[ऽर्थे]ऽञ् स्यात् । शाकला: , काण्वाः ॥२७||
वृद्धेञः ।६।३।२८॥ वृद्धेचन्तात् शेषे[ऽर्थे]ऽञ् स्यात् । दाक्षा: । वृद्धेति किम् ? सौतङ्गमीय: ।।२८।।
न द्विस्वरात् प्राग्-भरतात् ।६।३।२९॥ प्राग्गोत्रार्थाद् भरतगोत्रार्थाच्च वृद्धजन्तादञ् न स्यात् । चैङ्कीया: , काशीयाः । द्विस्वरादिति किम् ? पानागाराः ।।२९।।
भवतोरिकणीयसौ ।६।३॥३०॥ १. वृद्धजन्ताच्छेपेऽञ् न स्यात् J1,3 । “वृद्धेअन्ताद् द्विस्वरादञ् प्रत्ययो न भवति'' इति बृहद्वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org