________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३२०
[कुण्ड्यादिभ्यः] शेषे[ऽर्थे] एयकञ् स्यात् , तद्योगे च यो लुक् । कौण्डेयक: , कौणेयकः ।।११।।
कुल-कुक्षि-ग्रीवाच्छ्वाऽस्यलङ्कारे ।६।३।१२॥ [एभ्य:] शेषेऽर्थे यथासंख्यमेयकञ् स्यात् । कौलेयक: श्वा , कौक्षेयकोऽसि: ग्रैवेयकोऽलङ्कारः ||१२||
दक्षिणा-पश्चात्-पुरसस्त्यण् ।६।३।१३॥ [एभ्य: शेषेऽर्थे त्यण् स्यात् ।] दाक्षिणात्य: , पाश्चात्त्यः , पौरस्त्यः ।।१३।।
वहल्यूर्दि-पर्दि-कापिश्याष्टायनण् ।६।३॥१४॥ [एभ्यः शेषेऽर्थे टायनण् स्यात् ।] वाह्लायन: , और्दायन: , पार्दायनः , कापिशायनी द्राक्षा ।।१४।।
रङ्कोः प्राणिनि वा।६।३॥१५॥ [रङ्कुशब्दात् प्राणिनि [विशिष्टे] शेषेऽर्थे टायनण् वा स्यात् । राङ्कवायण: , राङ्कवो गौः ; कम्बलस्तु राङ्कवः ।।१५।।
केहाऽमा-त्र-तसस्त्यच् ।६।३।१६॥ [क इह अमा इत्येतेभ्य: , त्र-तस्प्रत्ययान्तेभ्यश्च शेषेऽर्थे त्यच् स्यात् ।] कत्य: , इहत्य: , अमात्यः , तत्रत्य: , कुतस्त्यः ॥१६॥
नेवुवे ।६।३।१७॥ [निशब्दाद् ध्रुवेऽर्थे] त्यच् स्यात् । नित्यं ध्रुवम् ॥१७॥
निसो गते ।६।३॥१८॥ [निस्शब्दाद् गतेऽर्थे] त्यच् स्यात् । निष्टयश्चण्डालः ॥१८॥
ऐषमो-ह्यस्-श्वसो वा ।६।३॥१९॥ [एभ्य:] शेषेऽर्थे त्यच् वा स्यात् । ऐषमस्त्यम् , ऐषमस्तनम् ; ह्यस्त्यम् , ह्यस्तनम् ; श्वस्त्यम् ,, श्वस्तनम् ।।१९।।
कन्थाया इकण् ।६।३।२०॥ कन्था ग्रामविशेष:, [कन्थाशब्दाच्छेषेऽर्थे इकण् स्यात् ।] कान्थिकः ।।२०।।
वर्णावकञ् ।६।३।२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org