SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३२८ स्वोपज्ञलघुवृत्तिविभूषितं [ तृतीयः पादः ] शेपे | ६|३|१|| अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ १॥ नद्यादेरेयण् |६|३|२॥ एभ्यः प्राग्जितीये शेषेऽर्थे एयण् स्यात् । नादेयः, वानेयः । शेष इत्येव - समूहे नादिकम् ||२|| " राष्ट्रादियः | ६| ३ | ३ | [ राष्ट्रशब्दात् शेषे प्राग्जितीयेऽर्थे इयः स्यात् । ] राष्ट्रियः || ३ || दूरादेत्यः ||६|३|४|| [दूरात् शेषेऽर्थे एत्यः स्यात् |] दूरेत्यः ||४|| उत्तरादाहञ् |६|३|५॥ [उत्तरशब्दात् शेषेऽर्थे आहञ् स्यात् |] औत्तराहः ||५|| पारावारादीनः | ६|३|६॥ [पारावारशब्दात् शेषेऽर्थे ईनः स्यात् । ] पारावारीणः || ६ || व्यस्त- व्यत्यस्तात् |६|३|७| पारावारात् शेषे ईनः स्यात् । पारीणः, अवारीणः, अवारपारीणः ||७|| द्यु- - प्रागपागुदक्-प्रतीचो यः | ६|३|८|| [ दिव्शब्दात् प्राच् अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययाऽनव्ययेभ्यः शेषेऽर्थे यः स्यात् ।] दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ||८|| ग्रामादीनञ् च | ६ | ३|९|| [ग्रामात्] शेषेऽर्थे [ईनञ् ] यश्च स्यात् । ग्रामीणः, ग्राम्यः ||९|| कत्र्यादेश्चैयकञ् |६|३|१०॥ [ कत्र्यादिभ्यो ] ग्रामाच्च शेषे [ एयकञ् ] स्यात् । कात्रेयकः, पौष्करेयकः ग्रामेयकः ||१०|| कुण्डयादिभ्यो यलुक् च |६|३|११|| १. अस्मिन् पादे [ ] एतदन्तर्गता: पाठा: P3सं० मध्ये एव सन्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy