________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३२७
कचित् ।६।२।१४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद् यथाविहितं प्रत्यय: स्यात् । चाक्षुषं रूपम् , आश्वो रथ: ।।१४५||
इति [आचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] षष्ठस्याध्यायस्य द्वितीय: पाद: समाप्तः ॥६।२।।
मृदित्वा दो:कण्डूं समरभुवि वैरिक्षितिभुजां भुजादण्डे ध्रुः कति न नवखण्डां वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगीशानां पिबसि नृप ! तत् कस्य सदृशम् ।।२२।।
१. समाप्त: J2 P3 मध्ये नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org