________________
३२६
स्वोपज्ञलघुवृत्तिविभूषितं
॥१३४||
वामदेवाद् यः।६।२।१३५॥ अस्माट्टान्ताद् दृष्टे साम्नि य: स्यात् । वामदेव्यं साम ॥१३५।।
डिद् वाऽण् ।६।२।१३६॥ दृष्टं सामेत्यर्थेऽण् डिद् वा स्यात् । औशनम् , औशनसम् ।।१३६।।
वा जाते द्विः ।६।२।१३७।। जातेऽर्थे योऽण् द्विर्विहित: स डिद्वा स्यात् । शातभिष: , शातभिषजः । द्विरिति किम् ? हैमवतः ॥१३७॥
तत्रोद्धृते पात्रेभ्यः ।६।२।१३८॥ तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृतेऽर्थे यथाविहितं प्रत्यय: स्यात् । शाराव ओदन: ॥१३८॥
स्थण्डिलाच्छेते व्रती।६।२।१३९॥ स्थण्डिलात् सप्तम्यन्तात् शेते व्रतीत्यर्थे यथाविहितं प्रत्यय: स्यात् । स्थाण्डिलो भिक्षुः ॥१३९।।
संस्कृते भक्ष्ये ।६।२।१४०॥ सप्तम्यन्तात् संस्कृते भक्ष्ये यथाविहितं प्रत्यय: स्यात् । भ्राष्ट्रा अपूपाः ॥१४०।।
शूलोखाद् यः ।६।२।१४१॥ ... आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये य: स्यात् । शूल्यम् , उख्यं मांसम् ॥१४१।।
क्षीरादेयण् ।६।२।१४२॥ क्षीरात् सप्तम्यन्तात् संस्कृते भक्ष्ये एयण् स्यात् । क्षैरेयी यवागू: ।।१४२।।
दन इकण् ।६।२।१४३॥ दध्नः सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् स्यात् । दाधिकम् ।।१४३।।
वोदश्वितः ।६।२।१४४॥ उदश्वित: सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् वा स्यात्। औदश्वित्कम् , औदश्वितम्
||१४४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org