________________
३२०
स्वोपज्ञलघुवृत्तिविभूषितं
अस्माच्चातुरर्थिका देशनाम्नि एते इक-कणौ च स्युः । शारिकः , शर्करीय: , शार्कर: , शर्करिक: , शार्करकः ॥७८||
रोऽश्मादेः ।६।२।७९॥ चातुरर्थिको देशनाम्नि स्यात् । अश्मर: , यूषरः ॥७९।।
प्रेक्षादेरिन् ।६।२।८०॥ चातुरर्थिको देशनाम्नि स्यात् । प्रेक्षी , फलकी ।।८०॥
तृणादेः सल् ।६।२।८१॥ चातुरर्थिको देशनाम्नि स्यात् । तृणसा , नदसा ॥८१।।
काशादेरिलः ।६।२।८२॥ चातुरर्थिको देशनाम्नि स्यात् । काशिलम् , वाशिलम् ॥८२॥
अरीहणादेरकण् ।६।२।८३॥ चातुरर्थिको देशनाम्नि स्यात् । आरीहणकम् , खाण्डवकम् ।।८३।।
सुपन्थ्यादेर्व्यः ।६।२।८४॥ चातुरर्थिको देशनाम्नि स्यात् । सौपन्थ्यम् , सौवन्थ्यम् ।।८४||
सुतङ्गमादेरिञ् ।६।२।८५॥ चातुरर्थिको देशनाम्नि स्यात् । सौतङ्गमिः , मौनिचित्तिः ।।८५।।
बलादेर्यः ।६।२।८६॥ चातुरर्थिको देशनाम्नि स्यात् । बल्यम् , बुल्यम् ।।८६।।
अहरादिभ्योऽञ् ।६।२।८७॥ चातुरर्थिको देशनाम्नि स्यात् । आह्नम् , लौमम् ।।८७||
सख्यादेरेयण् ।६।२।८८॥ चातुरर्थिको देशनाम्नि स्यात् । साखेय: , साखिदत्तेयः ।।८८।।
पन्थ्यादेरायनण् ।६।२।८९॥ चातुरर्थिको देशनाम्नि स्यात् । पान्थायन: , पाक्षायणः ॥८९||
१. देशे नाम्नि इकण् ईय अण् चकारादिक कण् इत्येते स्युः, शर्कराः सन्त्यस्मिन् देशे शार्करिकः J3 ।। २. देशनाम्नि रः स्यात् P3सं० J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org