________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३२१
कर्णादेरायनिञ् ।६।२।९०॥ चातुरर्थिको देशनाम्नि स्यात् । कार्णायनि: , वासिष्ठायनिः ।।१०।।
उत्करादेरीयः ।६।२।९१॥ चातुरर्थिको देशनाम्नि स्यात् । उत्करीय: , सङ्करीयः ।।९१।।
नडादेः कीयः ।६।२।९२॥ चातुरर्थिको देशनाम्नि स्यात् । नडकीयः , प्लक्षकीयः ।।९२।।
कृशाश्वादेरीयण् ।६।२।९३॥ चातुरर्थिको देशनाम्नि स्यात् । काश्विीय: , आरिष्टीयः ।।९३।।
ऋश्यादेः कः ।६।२।९४॥ चातुरर्थिको देशनाम्नि स्यात् । ऋश्यकः , न्यग्रोधकः ॥९४॥
वराहादेः कण् ।६।२।९५॥ चातुरर्थिको देशनाम्नि स्यात् । वाराहकम् , पालाशकम् ।।९५।।
कुमुदादेरिकः ।६।२।९६॥ चातुरर्थिको देशनाम्नि स्यात् । कुमुदिकम् । इक्कटिकम् ॥९६।।
अश्वत्थादेरिकण् ॥६।२।९७॥ चातुरर्थिको देशनाम्नि स्यात् । आश्वत्थिकम् , कौमुदिकम् ।।९७||
साऽस्य पौर्णमासी।६।२।९८॥ सेति प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं नाम्नि प्रत्यय: स्यात् , प्रथमान्तं चेत् पौर्णमासी । पौषो मासोऽर्द्धमासो वा ।।९८||
आग्रहायण्यश्वत्थादिकण् ।६।२।९९॥ आभ्यां प्रथमान्ताभ्यां षष्ठ्यर्थे इकण् स्यात् , तच्चेत् पौर्णमासी , नाम्नि । आग्रहायणिको मासोऽर्द्धमासो वा , एवमाश्वत्थिकः ।।९९।।
चैत्री-कार्त्तिकी-फाल्गुनी-श्रवणाद् वा ।६।२।१००॥ एभ्यः साऽस्य पौर्णमासीति विषये नाम्नि इकण् वा स्यात् । चैत्रिक: , चैत्रो मासोऽर्द्धमासो वा ; एवं कार्त्तिकिक: , कार्त्तिकः ; फाल्गुनिकः , फाल्गुन: : श्रावणिक: , श्रावणः ।।१००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org