SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३१९ निवासा-ऽदूरभव इति देशे नाम्नि ।६।२।६९॥ षष्ठ्यन्तान्निवासा-ऽदूरभवयोर्यथाविहितं प्रत्यय: स्यात् , तदन्तं चेद् रूढं देशनाम । शैवम् , वैदिशं पुरम् ॥६९।। तदत्राऽस्ति ।६।२।७०॥ तदिति प्रथमान्ताद् , अत्रेति सप्तम्यर्थे यथाविहितं प्रत्यय: स्यात् , प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ।।७०।। तेन निवृत्ते च ।६।२७१॥ तेनेति तृतीयान्तात् निर्वृत्तेऽर्थे यथाविहितं प्रत्यय: स्यात् , देशनाम्नि। कौशाम्बी ॥७१|| नद्यां मतुः ।६।२।७२॥ निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात् , नद्यां देशनाम्नि । उदुम्बरावती ||७२।। मध्वादेः ।६।२।७३॥ एभ्यश्चातुरर्थिको देशनाम्नि मतुः स्यात् । मधुमान् , विसवान् ।।७३।। नड-कुमुद-वेतस-महिषाड्डित् ।६।२।७४॥ एभ्यो डित् मतुश्चातुरर्थिको देशनाम्नि स्यात् । नड्वान् , कुमुद्वान् , वेतस्वान् महिष्मान् ।।७४|| नड-शादाद् वलः ।६।२।७५॥ आभ्यां चातुरर्थिको डिद् वलो देशनाम्नि स्यात् । नड्वलम् , शावलम् ||७५।। शिखायाः ।६।२७६॥ अस्मात् चातुरर्थिको देशनाम्नि वल: स्यात् । शिखावलं पुरम् ॥७६।। शिरीषादिक-कणौ ।६।२७७॥ अस्मात् देशनाम्नि चातुरर्थिकाविक-कणौ स्याताम् । शिरीषिक: , शैरीषक: ॥७७|| शर्कराया इकणीया-ऽण् च ।६।२।७८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy