________________
३१८
स्वोपज्ञलघुवृत्तिविभूषितं
एभ्यो विकारेऽवयवे वा फलेऽण् स्यात् । प्लाक्षम् , आश्वत्थम् ।।५९।।
जम्ब्वा वा ।६।२।६०॥ जम्ब्बा विकारेऽवयवे वा फलेऽण् वा स्यात् । जाम्बवम् , जम्बु , जम्बू: ॥६०॥
न द्विरद्रुवय-गोमय-फलात् ।६।२।६१॥ द्रुवय-गोमयौ फलार्थं च मुक्त्वाऽन्यस्माद् विकारावयवयोर्द्विः प्रत्ययो न स्यात् । कापोतस्य विकारोऽवयवो वेति मयट् न स्यात् । अदुवेत्यादि किम् ? द्रौवयं खण्डम् , गौमयं भस्म , कापित्थो रसः ॥६॥
पितृ-मातुर्व्य-डुलं भ्रातरि ।६।२।६२॥ आभ्यां भ्रातर्यर्थे यथासङ्ख्यं व्य-डुलौ स्याताम् । पितृव्य: , मातुलः ||६२।।
पित्रो महट् ।६।२।६३॥ पितृ-मातृभ्यां माता-पित्रोर्डामहट् स्यात् । पितामहः , पितामही ; मातामहः , मातामही ।।६३।।
अवेर्दुग्धे सोढ-दूस-मरीसम् ।६।२।६४॥ अवेर्दुग्धेऽर्थे एते स्युः । अविसोढम् , अविदूसम् , अविमरीसम् ।।६४।।
राष्ट्रेऽनङ्गादिभ्यः ।६।२।६५॥ अङ्गादिवर्जात् षष्ठचन्ताद् राष्ट्रेऽर्थेऽण् स्यात् । शैवम् । अङ्गादिवर्जनं किम् ? अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥६५।।
राजन्यादिभ्योऽकञ् ।६।२।६६॥ एभ्यो राष्ट्रेऽकञ् स्यात् । राजन्यकम् , दैवयातवकम् ।।६६।।
वसातेर्वा ।६।२।६७॥ अस्माद् राष्ट्रेऽकञ् वा स्यात् । वासातकम् , वासातं राष्ट्रम् ॥६७||
भौरिक्यैषुकार्यादेविध-भक्तम् ।६।२।६८॥ भौरिक्यादे राष्ट्र विधः ऐषुकार्यादेश्व भक्त: स्यात् । भौरिकिविधम् , भौलिकिविधम् ; ऐषुकारिभक्तम् , सारस्यायनभक्तम् ।।६८।।
१. अद्रुवेत्यादिति किम् इति सर्वत्र पाठ: । अद्रुवयेत्यादीति किम् P3सं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org