________________
३१४
स्वोपज्ञलघुवृत्तिविभूषितं
केशाद् वा ।६।२।१८॥ केशात् समूहे ण्यो वा स्यात् । कैश्यम् , कैशिकम् ॥१८॥
वाऽश्चादीयः ।६।२।१९।। अश्वात् समूहे ईयो वा स्यात् । अश्वीयम् , आश्वम् ।।१९।।
पर्था ड्वण् ।६।२॥२०॥ पर्थाः समूहे ड्वण् स्यात् । पार्श्वम् ॥२०॥
ईनोऽह्नः क्रतौ ।६।२।२१॥ अह्नः समूहे क्रतावीन: स्यात् । अहीन: क्रतुः , आमन्यत् ॥२१॥
पृष्ठाद् यः ।६।२।२२॥ पृष्ठात् समूहे क्रतौ य: स्यात् । पृष्ठयः क्रतुः ।।२२।।
चरणाद् धर्मवत् ।६।२।२३॥ कठादेर्धर्मे इव समूहे प्रत्ययाः स्युः । यथा कठानां धर्म: काठकं तथा समूहेऽपि ||२३||
गो-रथ-वातात् त्रल्-कटयलूलम् ।६।२।२४॥ एभ्य: समूहे यथासङ्ख्यमेते स्यु: । गोत्रा , रथकट्या , वातूलः ||२४||
पाशादेश्व ल्यः ।६।२।२५॥ अस्माद् गवादेश्च समूहे ल्य: स्यात् । पाश्या , तृण्या , गव्या , रथ्या , वात्या ||२५||
____ श्वादिभ्योऽञ् ।६।२।२६॥ एभ्य: समूहेऽञ् स्यात् । शौवम् , आह्नम् ।२६।।
खलादिभ्यो लिन् ।६।२।२७॥ एभ्य: समूहे लिन् स्यात् । खलिनी , ऊकिनी ॥२७||
ग्राम-जन-बन्धु-गज-सहायात् तल् ।६।२।२८॥ एभ्य: समूहे तल् स्यात् । ग्रामता , जनता , बन्धुता , गजता , सहायता ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org