SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पुरुषात् कृत-हित-वध-विकारे चैयञ् ।६।२।२९॥ एषु समूहे च पुरुषादेयञ् स्यात् । पौरुषेयो ग्रन्थः , पौरुषेयं पथ्यम् , पौरुषेयो वधो विकारो वा , पौरुषेय: समूहः ॥२९|| विकारे ।६।२।३०॥ षष्ठयन्ताद् विकारे यथाविहितं प्रत्ययाः स्यु: । आश्मनः , आश्म: ।।३०॥ ___ प्राण्यौषधि-वृक्षेभ्योऽवयवे च ।६।२॥३१॥ एभ्य: षष्ठयन्तेभ्यो विकारेऽवयवे च यथाविहितं प्रत्ययाः स्युः । कापोतं सक्थि मांसं वा , दौर्वं काण्डं भस्म वा , एवं बैल्वम् ।।३१।। तालाद् धनुषि ।६।२॥३२॥ तालाद् धनुषि विकारेऽण् स्यात् । तालं धनुः । धनुषीति किम् ? तालमयं काण्डम् ।।३२।। पु-जतोः षोन्तश्च ।६।२।३३।। आभ्यां विकारेऽण् स्यात् , षान्तः । त्रापुषम् , जातुषम् ।।३३।। शम्या लः ।६।२।३४॥ शम्या विकारेऽवयवे चाऽण् स्यात् , तद्योगे लान्तः । शामीलं भस्म , शामीली शाखा ॥३४॥ पयो-द्रोर्यः ।६।२॥३५॥ आभ्यां विकारे य: स्यात् । पयस्यम् , द्रव्यम् ॥३५॥ उष्ट्रादकञ्।६।२।३६॥ उष्ट्राद् विकारेऽवयवे चाऽकञ् स्यात् । औष्ट्रकं मांसमङ्गं वा ॥३६॥ उमोर्णाद् वा ।६।२॥३७॥ आभ्यां विकारेऽवयवे चाऽकञ् वा स्यात् । औमकम् , औमम् । और्णकम् , और्ण: कम्बलः ॥३७|| एण्या एयञ् ।६।२।३८॥ एण्या विकारेऽवयवे चैयञ् स्यात् । ऐणेयं मांसमङ्गं वा ॥३८।। कौशेयम् ।६।२॥३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy