________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३१३
षष्ठयाः समूहे ।६।२।९॥ षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्यया: स्युः । चाषम् , स्त्रैणम् ॥९॥
भिक्षाऽऽदेः ।६।२।१०॥ एभ्य: षष्ठचन्तेभ्य: समूहे यथाविहितं प्रत्यय: स्यात् । भैक्षम् , गार्भिणम्
॥१०॥
क्षुद्रकमालवात् सेनानाम्नि ।६।२।११॥ अस्मात् षष्ठयन्तात् समूहेऽण् स्यात् , सेनासंज्ञायाम् । क्षौद्रकमालवी सेना ||११|| .
गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ् ।६।२॥१२॥
गोत्रप्रत्ययान्तादुक्षादेश्च समूहेऽकञ् स्यात् । गार्गकम् , औक्षकम् , वात्सकम् , औष्ट्रकम् , वार्द्धकम् , आजकम् , औरभ्रकम् , मानुष्यकम् , राजकम् , राजन्यकम् , राजपुत्रकम् ।।१२।।
केदाराण्ण्यश्च ।६।२।१३॥ केदारात् समूहे ण्योऽकञ् च स्यात् । कैदार्यम् , कैदारकम् ।।१३।।
कवचि-हस्त्यचित्ताचेकण् ।६।२।१४॥ कवचि-हस्तिभ्यामचित्तार्थात् केदाराच्च समूहे इकण् स्यात् । कावचिकम् , हास्तिकम् , आपूपिकम् , कैदारिकम् ॥१४॥
धेनोरनञः।६।२।१५॥ धेनोरनपूर्वात् समूहे इकण् स्यात् । धैनुकम् । अनञ इति किम् ? आधैनवम्
॥१५॥
ब्राह्मण-माणव-वाडवाद् यः ।६।२।१६॥ एभ्य: समूहे य: स्यात् । ब्राह्मण्यम् , माणव्यम् , वाडव्यम् ।।१६।।
गणिकाया ण्यः ।६।२।१७॥ अस्मात् समूहे ण्य: स्यात् । गाणिक्यम् ।।१७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org