________________
स्वोपज्ञलघुवृत्तिविभूषितं
[ द्वितीयः पादः ] रागाट्टो रक्ते | ६ |२| १ |
रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् । कौसुम्भं वासः ॥ १ ॥
लाक्षा - रोचनादिकण | ६ |२|२||
३१२
आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण् स्यात् । लाक्षिकम्, रौचनिकम् ||२|| शकल - कर्द्दमाद् वा |६|२|३||
आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण् वा स्यात् । शाकलिकम्, शाकलम् कार्द्दमिकम्, कार्द्दमम् ||३||
नील - पीतादकम् || ६|२|४||
आभ्यां टान्ताभ्यां रक्तमित्यर्थे यथासङ्खयम् अ-कौ स्याताम् । नीलम्, पीतकम्
11811
,
उदितगुरोर्भाद् युक्तेऽब्दे | ६ |२|५||
उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्ताद् युक्तेऽब्दे यथाविहितं प्रत्ययः स्यात् | पौषं वर्षम् ||५||
चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते |६|२|६||
चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाट्टान्ताद् युक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात्
अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः, अद्य पुष्यः ||६||
द्वन्द्वादीयः | ६ | २|७|
चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाट्टान्ताद् युक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ||७||
श्रवणा - ऽश्वत्थान्नाम्न्यः | ६ | २|८||
चन्द्रयुक्तार्थात् श्रवणा-ऽश्वत्थाच्च टान्ताद् युक्ते कालेऽर्थे संज्ञायाम् अः स्यात् | श्रवणा रात्रिः, अश्वत्था पौर्णमासी । नाम्नीति किम् ? श्रावणमहः । अश्वत्थमहः
१
11211
१. आश्वत्थमहः P3सं० मध्य एव विद्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org