SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ युवा पाण्टाहृतः 9 ततो वृद्धेऽञः [६/३/२८] इत्यञ् पाण्टाहृताः || १३७|| वायनणायनिञोः | ६ | १|१३८ || श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तस्य च्छात्रा इति प्राग्जितीये स्वरादौ चिकीर्षिते णस्य लुप् , अनयोर्युवार्थयोः प्राग्जितीये स्वरादौ विषये लुब् वा स्यात् । गार्गीयाः, गार्ग्यायणीया वा ; हौत्रीयाः, हौत्रायणीया वा ।। १३८ ।। द्रीञ वा | ६ | १|१३९॥ द्रीञन्तात् परस्य युवार्थस्य लुब् वा स्यात् । औदुम्बरि:, औदुम्बरायणो वा ॥ १३९ ॥ ञिदार्षादणिञोः | ६ | १|१४०॥ ञिद् आर्षश्च योऽपत्यप्रत्ययस्तदन्तात् परस्य यूनि अण इञश्च लुप् स्यात् । तैकायनिः पिता, तैकायनिः पुत्रः, वाशिष्ठः पिता, वाशिष्ठः पुत्रः || १४०॥ अब्राह्मणात् ।६।१।१४१॥ ३११ अब्राह्मणाद् वृद्धप्रत्ययान्ताद् युवार्थस्य लुप् स्यात् । आङ्गः पिता, आङ्गः पुत्रः । अब्राह्मणादिति किम् ? गार्ग्य: पिता, गार्ग्यायणः पुत्रः || १४१ || पैलाऽऽदेः | ६|१|१४२॥ भ्यो यूनि प्रत्ययस्य लुप् स्यात् । पैलः पिता, पैलः पुत्रः ; शालङ्किः पिता, शालङ्किः पुत्रः || १४२ || प्राच्येञोऽतौल्वल्यादेः | ६ |१|१४३ || प्राच्यगोत्रे इञन्तात् तौल्वल्यादिवर्जाद् यूनि प्रत्ययस्य लुप् स्यात् । पान्नागारिः पिता, पान्नागारिः पुत्रः ; मान्थरेषणिः पिताः । मान्थरेषणिः पुत्रः । प्राच्य इति किम् ? दाक्षि: पिता, दाक्षायणः पुत्रः । तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता, तौल्वलायनः पुत्रः || १४३ || इति [आचार्यश्रीहेमचन्द्रविरचितायां शासनलघुवृत्तौ] षष्ठस्याध्यायस्य प्रथमः पादः समाप्तः ||६|१|| Jain Education International १. समाप्त: J2 P3 || " श्रीविक्रमादित्यनरेश्वरस्य त्वया न किं विप्रकृतं नरेन्द्र ! | यशांस्यहार्षीः प्रथमं समन्तात्, क्षणादभाङ्गीरथ राजधानीम् ||२१| सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy